________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
चित्तत्वम्, स्थैर्य प्रारब्धकार्यस्य कथञ्चिद्विघ्नाकुलत्वेऽपि व्यवसायादचलनम्, औदार्यं स्वजीवितनिरपेक्षत्वेन परप्राणपरिरक्षणम्, निःशङ्कवित्तव्ययेच्छा वा । आराद्दूरे याताः पापेभ्य इत्यार्याः शिष्टास्तेषां चर्या समाचारः साप्तपदीनसख्यत्वादिलक्षणः पूर्वोक्त एव । विनयः गुर्वादिष्वासनदानादिप्रतिपत्तिः, नयः पैशुन्यद्रोहादित्यागरूपो न्यायः, दया नि:कारणं परदुख:प्रहाणेच्छा, दाक्ष्यं क्षिप्रकार्यकारिता, दाक्षिण्यं परोपरोधवृत्तिता। ततश्च व्रतानि च नियमाश्चेत्यादिद्वन्द्वे, तेषां लक्ष्मीः श्रीस्तत्तद्गुणबाहुल्यं तस्याः। इह च यद्यपि शमगाम्भीर्यादीनां मानसिकत्वं तथापि तत्कार्यस्य निर्विकारत्वादेः शरीर एवाभिव्यक्तेः शारीरगुणेषु दर्शनमविरुद्धमेव । यत्र चात्मनीतौ वाङ्मनःशरीराणामपवर्गोपयोगिन्यत्यन्तविशुद्धिस्तत्र सर्वान्यधर्म्यपदेभ्य उद्यत्वं युक्तमेवेति पर्यालोच्योद्देशे उद्यत्वमुक्तमिति । तथा 'शब्दाः समासवन्तो भवन्ति यथाशक्ति गौडीया [रुद्रट काव्यालं० २।५] ' इति वचनादत्र गौडीया रीतिरिति वृत्तार्थः॥ १९ ।।
अथ नवमं क्षान्तिद्वारं विवृण्वंस्तस्या एव कार्योपदर्शनद्वारेण कर्तव्यतोपदेशमाह
प्रीत्या भीत्या च सर्वं सहति किल शठोऽप्यश्रुते चेष्टमेवं कार्यं कुर्यात् क्षमी यन्न तदिह कुपितः स्पष्टमेतजनेऽपि। तस्मादप्युग्ररागद्विषि मिषति रिपौ सर्वशास्त्रोदितायां
सर्वाभीष्टार्थलाभप्रभवकृति सदा वर्तितव्यं क्षमायाम्॥२०॥ व्याख्या-वर्तितव्यं क्षमायामिति योगः। कुतः? यतः शुभभावं विनाप्येषा क्षान्तिर्विधीयमानाऽभीष्टफला भवति। कथमित्याह-प्रीत्या अत्यन्तप्रेम्णा कश्चित्कामी शठोऽपि कान्तायां वञ्चनापरिणामवानपि। आस्तामशठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org