________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
६०
व्याख्या-वागुच्यते सतेति योगः। कीदृशीत्याह-तथ्या सत्या, पथ्या हितानुबन्धिनी तथा यथार्था अभिधेयपदार्थाव्यभिचारिणी। सत्या हि किं सत्यं? भूतहित [ ] मिति वचनात्, पलायितं मृगं वधाय पृच्छतो व्याधस्य दृष्ट मृगस्यापि मुनेस्तददृष्टत्वप्रतिपादनं सत्यमेवेति, न यथार्थया सह पौनरुक्त्यम् । स्फुटा व्यक्तवर्णा, मिता अल्पाक्षरा, मधुरा श्रोत्रानन्दिनी, उदारा कालिकार्यस्येव आत्मप्राणनिरपेक्षत्वेन जीमूतवाहनस्येव वा परप्राणरक्षाप्रधानत्वेन स्फारा, सारा साभिप्रायत्वेन पुष्टार्था, न तु 'गोर पत्य बलीवईस्तृणान्यत्ति मुखेन स' इत्यादिवत्फल्गुरूपा। ततश्च यथार्था चासौ स्फुटा चासावित्यादि कर्मधारयः। ईदृशी वाग् वाणी उच्यते भाष्यते सद्भिस्तस्मात्सैव तैर्वाच्येति भावः । यद्यपि करणेष्वन्तरङ्गत्वान्मनसः श्रुते च दण्डगुप्त्यादिप्रतिपादकेऽस्यैवाऽऽद्यत्वश्रुतिस्तथापि सर्वपदार्थानामुपदेशगम्यत्वादुपदेशस्य च वारूपत्वाद्वाच एव प्राधान्यविवक्षयाऽत्रादावुपन्यासः। एवं वचनमुपदिश्याथ मनोविषयमुपदेशमाह-चेतश्चेति, चः समुच्चये, तेन न केवलं वागेवेदृशी कार्या अपि तु मनोऽपि कार्यं विधेयम्। कीदृशमित्याह-क्षोभः आकस्मिकस्त्रासः, लोभः न्यायेन परद्रव्यग्रहणेच्छा, स्मयः अहंकारः, भयम् इहलोकादिसप्तप्रकारा भीतिः, मदनः कामः, द्रोहः परवञ्चना प्राणप्रहाणाद्यभिसन्धिः, मोहः अज्ञानं द्रव्यादिमूर्छा वा। ततश्च क्षोभश्च लोभश्चेत्यादिद्वन्द्वे तैः प्रमुक्तं प्रकर्षेण परिहृतं कार्यं विधेयम् । एतत्परित्यागस्यैव शिष्ट त्वव्यञ्जकत्वात् । तथा देहं च शरीरमपि कार्यमित्येतत् पदमिहापि सम्बध्यते। कीदृशमित्याह-गेहं मन्दिरमावास इति यावत् । कस्या इत्याह-व्रतानि अणुव्रतादीनि, नियमाः द्रव्याद्यभिग्रहाः, शमः क्रोधाभावः, औचित्यं युक्तायुक्तविवेचनेन दानादौ प्रवृत्तिः, गाम्भीर्यं हर्षविषादादिष्वलक्ष्यचित्तवृत्तिता, धैर्यं महापद्यप्यविह्वल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org