Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 88
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् विषय इत्याह-गुरवः लोकलोकोत्तरपूज्या आचार्यजनकादयः, देवता वीतरागादयो देवाः, अतिथयः प्राघूर्णकाः, यतयः सुविहितसाधवस्ततो गुरवश्च देवताश्चेत्यादिद्वन्द्वः। एषु यथाक्रममासनदानाञ्जलिप्रग्रहादिकः पुष्पाद्यारोपण-पादप्रक्षालन-भोजनादिक-शय्या-पुस्तकाऽऽहारादिदानरूपश्च कर्त्तव्यः । एषोऽपि लोकलोकोत्तरव्यवहाराभिज्ञत्वसूचकः स्यात् । तथा कार्यारम्भे आयतेः आगामिकालस्य शुभाशुभपरिणामहेतो : अनुप्रेक्षणं चिन्तनम्, अस्यापि सहृदयत्वव्यवस्थापकत्वात् । तथा स्वश्लाघायाः आत्मप्रशंसायाः परिवर्जनं परिहारः अस्याप्यतुच्छताव्यञ्जकत्वात् । तथा जनमनसां सहृदयलोकचित्तानां प्रेयस्त्वम् अत्यन्तवल्लभत्वम्, सर्वदापि तद्वाल्लभ्यहेत्वनुष्ठानपरत्वात् । अनेनापि सूत्राप्रतिक्रुष्टत्वलक्षणविशेषेण धर्माधिकारित्वप्रकाशनात्। तथा अक्षुद्रता परच्छिद्राद्यगवेषकत्वेनाक्रूरता । अनेनापि सर्वविश्वास्यत्वस्य दर्शनात् । तथा सप्रेम प्रीतिपूर्वकं प्रथममालपनीयकृतालापात् प्रागेवाभिभाषणमालपनम्, अनेनापि आभाष्यविषयसौहार्दविशेषाविष्करणात् । इतिशब्दः परिसमाप्तौ । इत्येषोपदर्शितरूपा नीतिः सभ्यसमाचार : प्रायेण बाहुल्येन न त्वैषैव, अन्यस्याप्येवंरूपस्य मूढसंसर्गवर्जनादेर्बहोः प्रदर्शनात् । सतां शिष्टानामिति वृत्तार्थः ॥ १८ ॥ एवं सामान्येन सतां नीतिमभिधायाथ विशेषेण केवलवचनमन:कायगतत्वेन तामाह तथ्या पथ्या यथार्थस्फुटमितमधुरोदारसारोच्यते वाक् चेतश्च क्षोभलोभस्मयभयमदनद्रोहमोहप्रमुक्तम्। कार्यं देहं च गेहं व्रतनियमशमौचित्यगाम्भीर्यधैर्यस्थैर्यौदार्यार्यचर्याविनयनयदयादाक्ष्यदाक्षिण्यलक्ष्याः॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142