Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 73
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् दर्दुराङ्कदेवजीवो नन्दमणिकारः । न चात्र हेतोरसिद्धिस्त्रिदशैरपि तीर्थकृत्प्रवचनात् मनागप्यप्रच्यावितमानसत्वेन क्षायिकसम्यक्त्वस्य निश्चितत्वात्तत्रेति। कर्मक्षयतारतम्यं तु ज्ञानदर्शनसुखोपशमदीर्घायुष्कसुरूपसुकुलादितारतम्यलाभवत्सु प्राय: सर्वप्राणिषु सुप्रतीतमेवेति । आगमस्तु तपसा निर्जरा च [तत्त्वार्थ० ९ । ३] इत्याप्तवचनं पूर्वप्रतिपादितश्च । तपश्च निबिडतमबन्धानामपि कर्मणां निर्जरणक्षममिति कारणे कार्योपचारात्तप एव निर्जरेति । तदुक्तम् जम्हा निकाइयाण वि कम्माण तवेण होइ निज्जरणं । तम्हा उवयाराओ तवो इहं निज्जरा भणिया ॥ [ J तच्च बाह्याभ्यन्तरभेदाद् द्वादशधेति । निर्जराऽपि द्वादशविधा, अथवा कनकावली-सिंहविनिकीडितादिभेदादनेकविधमिति । तपो हि शुभात्मपरिणामविशेषलक्षणतया धर्मध्यानरूपत्वेन श्रेयोहेतुत्वादास्रवप्रत्यनीकत्वाच्चास्रवनिरोधः संवर: [ तत्त्वार्थ० ९ । १] इति वचनात् संवरोऽपि । तथाहिबाह्याध्यात्मिकभावानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यं ध्यानं गुप्तिसमित्यनुप्रेक्षादिकमपि सर्वं तादृशमिति धर्म्यम् । एवं शुक्लध्यानमपि केवलं तदाद्यभेदात् पृथकत्ववितर्कसविचाराख्यात् प्रकर्षकोटिप्राप्तादुपशमकस्य क्षपकस्य वा मोहनीयमात्रोपशमक्षयरूपा निर्जरा । एकत्ववितर्काविचाराख्यात् तु द्वितीया सद्भेदादतिशयकोटिसमारूढादकषायछद्मस्थवीतरागाणां निःशेषमोहक्षयानन्तरं युगपत् घातिकर्मत्रयक्षयरूपा निर्जरा भवति । यदाह वाचकमुख्यः -: Jain Education International ४४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142