Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 82
________________ ५३ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तथा आचारविनयः १, श्रुतविनयः २, विक्षेपणाविनय: ३, दोषनिर्घातविनयः ४। [९]३६। तथा विद्या ससाधना स्त्रीदेवता वा । मन्त्रो पठितसिद्धः पुरुषदेवतो वा, ताभ्यां महीयांसो महत्तराः। तद्युक्ता हि प्रवचनप्रभावका भवन्ति। वैरस्वामि-खपुटाचार्यादिवत् । तथा सुष्ठ शोभनं सर्वोपकारकरणविषयत्वेन मनश्चित्तं येषां ते तथा। अत एव भव्यव्रजस्य मुक्तिगमनयोग्यप्राणिवर्गस्य प्रेयसाम् अत्यन्तप्रियाणां गिरः सदुपदेशरूपा वाचः। किमित्याह-धत्त धारयत मनसीति शेषः। तथोच्चैः अतिशयेन तपोऽनशनादि रूपं येषां ते तथा, गुणप्राग्भारवत्त्वादेव, तपसि लब्धे यत् पुनस्तपोग्रहणं तत्सर्वेषामपि प्रव्रजितानां तत्र सर्वदादरख्यापनार्थम् । तथा विकाशियशसां सर्वत्रप्रसृतकीर्तीनाम् । ज्ञानादिमतां हि कीर्तिप्रसरो न दुर्लभ इति भावः । कीदृश्यो गिरः? सम्यगविरुद्धाः सिद्धान्तसम्बन्धिन्यः। अथ कथं धत्त? सम्यगवैपरीत्येन, न तूपदिष्टविपर्ययेणेति । केषामित्याह-गुरूणां ज्ञानादिमदाचार्यादीनाम्। अनेन कुगुरुगिरामवधीरणमेव सूचितमिति । अत्र वृत्ते 'प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घह्रस्ववृन्दारकाणां प्रस्थस्फवरगरबंहत्रपद्राघहसवर्षवृन्दा० [सि.हे. ७-४-३८] इत्यनेन गुरुवृन्दारकबहुलप्रियशब्दानां यथासंख्यं गुणादिष्ठेयन्सौ वेत्यनेन इयन्सि प्रत्यये गरवृंदबंहप्रलक्षणादेशचतुष्टये सति गरीयसामित्यादीनां सिद्धिः। पटीयसां महीयसामित्यादेरप्येवमिति । अत्र वक्ष्यमाणे च वृत्तेऽनुप्रासविशेषोऽलङ्कार इति वृत्तार्थः॥ १४ ॥ १. 'प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फावर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम् [सिद्धहेम० ७। ४। ३८] गुणाङ्गाद् वेष्ठेयसू' [सिद्धहेम० ७। ३। ९] । 'प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्ष-त्रप्-द्राघि-वृन्दा:' [पा० ६।४। १५७] पा० सिद्धान्तकौमुदी २०१६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142