Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 51
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तिलयन्त्रे निपीडयति। एष गुणिसङ्गत्यागी। का इत्याह-स्थवीयांसि अत्यन्तस्थूलानि यानि स्थलतलानि सिकताकूटविशेषास्तेषाम्, सिकता वालुकास्ताः। स्थूलशब्दस्य ईयन्सि प्रत्यये अन्तस्थालकारलोपे गुणे च स्थवीयांसीति भवति। किमर्थम् इत्याह—तैलहेतोः तिलनिर्यासनिष्पत्तिनिमित्तम्, न च कदाचित् सिकतासु तैलसम्भवः। आदौ निदर्शनालङ्कारेणेत्युक्तम्, तत्र निदर्शनलक्षणं त्वेवम्-अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः [काव्यप्रकाश सूत्र १५०] इति। तदत्र सत्सङ्ग विना यः सद्धर्मान्वेषी स चन्द्रिकाभिः स्नात इत्युक्तम्। चन्द्रिकास्नानं च नासौ करोतीति वस्तुसम्बन्धाभावे उपमानोपमेयभावः प्रवर्त्तते । यथा चन्द्रिकाभिः स्नानमसम्भवि तथा सत्सङ्गाभावे धर्मोऽपीति। एवं मृगतृष्णा- तृष्ण्या तृप्तादिचतुष्टयेऽपि योज्यम्। तस्माद्धर्मार्थिनाऽवश्यं सत्सङ्गो विधेय इत्युपदेश इति वृत्तार्थः ॥ ९॥ अथाऽर्थे विरक्तिरिति चतुर्थं द्वारमर्थदोषप्रदर्शनपुरस्सरं विवृण्वन्नुपदेशमाहत्वग्भेदच्छेदखेदव्यसनपरिभवाप्रीति-भीति-प्रमीति क्लेशाविश्वासहेतुं प्रशमदमदयावल्लरीधूमकेतुम्। अर्थं निःशेषदोषाङ्करभरजननप्रावृषेण्याम्बु धूत्वा लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम्॥१०॥ व्याख्या-अर्थं धूत्वा सन्तोषपोषं धत्तेति सम्बन्धः । कीदृशमर्थम् इत्याह त्वचः शारीरचर्मणो भेदस्तप्तसन्दंशादिना विदारणम्, छेदः कर्त्तनं हस्तादेः, खेदः उपार्जनादौ शारीरः श्रमः, व्यसनं राज-चौराद्युपद्रवः, परिभवः कदाचिन्नृपेण बन्दिप्रक्षेपेऽत्यन्तनीचकर्मकरादेरप्याक्रोशताडनादितिरस्कारः, अप्रीतिः लोभाभिभूतपितृपुत्रादेरपि स्नेहध्वंसः, भीतिः नृप-दायाद-चौरादेस्त्रासः, प्रमीतिर्मरणमपि कदाचित्, क्लेशः कदाचिद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142