Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 59
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ३० हिमवद्विन्ध्ययो: श्लेषाभावे मेरु-नन्दनवनयोः श्लेषो निवर्त्तत इति । एवमिहापि निवर्त्यनिवर्त्तकयोरास्रवसंवरयोर्निवय॑निवर्त्तकभावस्तद्धर्मत्व एव, न तु तद्व्यतिरिक्तधर्मत्वेऽपि। एवमेकदेशकर्मक्षयलक्षणा निर्जराऽपि सर्वकर्मक्षयलक्षणो मोक्षोऽपि जीवाजीवाव्यतिरिक्तपरिणामरूप एवेति। तथा च सति कथञ्चित् परस्परतः साध्यसाधनादिभावविवक्षया तत्त्वानां सप्तत्वम् । पुण्यपापयोरपि बन्धात् कथञ्चिद्भेदविवक्षया नवरूपत्वम्। तथा च वक्ष्यति। 'सप्त द्वे नव वेत्यवेत बहुधा तत्त्वं विवक्षावशाद्' इति, तेन विवक्षातः सप्त-नवरूपत्वम्, परमार्थस्तु द्वित्वमेवेत्यभिप्रायः। तथा पुण्यानवा इति, विधिविहितविशिष्टानुष्ठानसाध्यः प्रशस्ततीर्थकरत्वसातसौभाग्यादिसाधकः शुभात्मपरिणामविशेषः पुण्यम्, एतदप्यनुमानागमप्रतीतम्। तत्रानुमानं तावत् प्राणिनां लावण्यानन्दविशेषादिकं कारणविशेषजन्यं कार्यविशेषत्वात्। रसायनादिजन्यवपु:पुष्टिवत्। न त्वकारणं कार्यम्, आकस्मिकस्य हि नित्यं सत्त्वासत्त्वयोः प्रसङ्गात् । तस्माद्यदत्र कारणं तत्पुण्यं कर्मेति। न चात्र कर्मान्तराणां तद्धेतुता सम्भवति, तेषां प्रतिनियतज्ञानावारकत्वादिप्रातिस्विककार्यमात्रहेतुत्वेनैव सिद्धत्वात् । अयमभिप्रायः-आत्मा हि तावदास्रवेण मूलोत्तरकर्मप्रकृतीर्बध्नाति। तत्राप्युत्तरप्रकृतय एव पुण्यापुण्यसंज्ञकाः, न मूलप्रकृतयस्तासां ज्ञानावरणादिसंज्ञाभिधेयत्वात्। कथमेतदेवमिति चेदुच्यते—आस्रवो हि शुभाशुभरूपतया द्विविधस्तत्र च शुभास्रवजनितो बन्ध एव पुण्यशब्दवाच्यो यतस्तीर्थकरत्वादिद्विचत्वारिंशत्प्रकृतिप्रादुर्भावः। अशुभास्रवजनितस्तु पापशब्दवाच्यो यतोऽनिष्टगत्यादिव्यशीतिप्रकृतिप्रादुर्भावः। यद्यपि च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142