Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 66
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तथाविधसुखवत्। न चात्र परिदृश्यमानचन्दनादिप्रभवत्वमेवेति साधनविकलता दृष्टान्तस्येति वाच्यम्। समाधिविशेषप्रभवस्याऽऽनन्दस्य योगिनां भवद्भिरप्यभ्युपगमात्। ततो यदस्य कारणं तत्पापं कर्मेति कारणान्तराहेतुकत्वमनाकस्मिकत्वं च पुण्यवदिहापि द्रष्टव्यम्। एतद्दृष्टान्तेन चात्रापि शेषाशुभप्रकृतीनां पापप्रभवत्वम् अनुमातव्यम्। तथाहि-नीचैर्गोत्रादयोऽपि पापप्रभवा अशुभप्रकृतित्वात्, दुःखवदिति। किञ्च, आत्मनो भवान्तरगामित्वे पूर्वोक्तयुक्त्या सिद्धे इदमप्यनुमानमत्र प्रवर्त्तते, चेतनस्य स्वपरज्ञस्य तदात्मनो हीनमातृगर्भस्थानप्रवेशस्तत्सम्बद्धान्यनिमित्तोऽनन्यनेयस्य सतस्तत्प्रवेशत्वात्, मत्तस्याशुचिस्थानप्रवेशवदिति। यत्तदन्यत् सम्बद्धं द्रव्यं तत्पापमिति। पुण्यवदस्यापि तत्तन्नारकादिगतिप्राप्तिहे तुत्वेन तत्तद्दु :खतारतम्यप्राप्तिहेतुत्वेन चाऽवान्तरासंख्येयभेदत्वं बोद्धव्यम् । आगमस्त्वत्रापि पूर्वोक्तः प्रसिद्ध एव। ताश्च प्रकृतय इमाः। तत्र भवोपग्राहिषु तावत् सप्तत्रिंशत्। तत्राप्येकमायुर्नाम्नश्चतुस्त्रिंशद्गोत्रं चैकं वेदनीयमप्येकं शेषास्तु पञ्चचत्वारिंशत् घातिकर्मसु। तथाहि थावरदस चउजाई अपढमसंठाणखगइसंघयणा। तिरि-नरय-दुगुवघायं वन्नचऊ नाम चउतीसा॥ अत्रापि स्थावरदशकमिदम् थावरसुहुमअपज्जं साहारण अथिर-असुभ-दुभगाणि। दूसरणाइज्जाऽजसं॥ [ ] इति वर्णादिचतुष्कमपि कृष्णादि चेहाशुभं ग्राह्यम्। तथा— Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142