________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
तथाविधसुखवत्। न चात्र परिदृश्यमानचन्दनादिप्रभवत्वमेवेति साधनविकलता दृष्टान्तस्येति वाच्यम्। समाधिविशेषप्रभवस्याऽऽनन्दस्य योगिनां भवद्भिरप्यभ्युपगमात्। ततो यदस्य कारणं तत्पापं कर्मेति कारणान्तराहेतुकत्वमनाकस्मिकत्वं च पुण्यवदिहापि द्रष्टव्यम्। एतद्दृष्टान्तेन चात्रापि शेषाशुभप्रकृतीनां पापप्रभवत्वम् अनुमातव्यम्। तथाहि-नीचैर्गोत्रादयोऽपि पापप्रभवा अशुभप्रकृतित्वात्, दुःखवदिति। किञ्च, आत्मनो भवान्तरगामित्वे पूर्वोक्तयुक्त्या सिद्धे इदमप्यनुमानमत्र प्रवर्त्तते, चेतनस्य स्वपरज्ञस्य तदात्मनो हीनमातृगर्भस्थानप्रवेशस्तत्सम्बद्धान्यनिमित्तोऽनन्यनेयस्य सतस्तत्प्रवेशत्वात्, मत्तस्याशुचिस्थानप्रवेशवदिति। यत्तदन्यत् सम्बद्धं द्रव्यं तत्पापमिति। पुण्यवदस्यापि तत्तन्नारकादिगतिप्राप्तिहे तुत्वेन तत्तद्दु :खतारतम्यप्राप्तिहेतुत्वेन चाऽवान्तरासंख्येयभेदत्वं बोद्धव्यम् । आगमस्त्वत्रापि पूर्वोक्तः प्रसिद्ध एव। ताश्च प्रकृतय इमाः। तत्र भवोपग्राहिषु तावत् सप्तत्रिंशत्। तत्राप्येकमायुर्नाम्नश्चतुस्त्रिंशद्गोत्रं चैकं वेदनीयमप्येकं शेषास्तु पञ्चचत्वारिंशत् घातिकर्मसु। तथाहि
थावरदस चउजाई अपढमसंठाणखगइसंघयणा। तिरि-नरय-दुगुवघायं वन्नचऊ नाम चउतीसा॥
अत्रापि स्थावरदशकमिदम्
थावरसुहुमअपज्जं साहारण अथिर-असुभ-दुभगाणि।
दूसरणाइज्जाऽजसं॥ [ ] इति वर्णादिचतुष्कमपि कृष्णादि चेहाशुभं ग्राह्यम्। तथा—
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org