________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
३८
नरयाउ नीय अस्साय घाइपणयालसहिय बासीई। असुहपयडीओ दोसु वि वनाइचउक्कगहणेणं॥
इहापि सम्यक्त्वादीनां देशसर्वघातिहेतुत्वेन घातिन्यो द्विधा। तत्र देशघातिन्यः पञ्चविंशतिस्तदुक्तम्
संजलण नोकसाया चउनाण तिदंसणावरण विग्घा। पणुवीस देसघाई सेस अघाई सरूवेण ॥ त्ति
सर्वघातिन्यस्तु विंशतिस्तदुक्तम्
केवलिय-नाणदंसण-आवरणं बारसाइमकसाया। मिच्छत्त-निद्दपणगं इय वीसं सव्वघाईओ॥
तदेवं सर्वमीलनेन ट्यशीतिः पापप्रकृतयः। अत्रापि स्थावरत्वं वृक्षादीनामेकत्रस्थितत्वरूपं तथापि तदुदयवेद्या कर्मप्रकृतिरपि स्थावरत्वम्। एवं सूक्ष्मादिष्वप्यूहनीयं। शेषमपि पुण्यवदत्रापि सर्वं वाच्यमिति॥
तथा भेदान् प्रकारान् संवरबन्धयोस्तत्त्वविशेषयोः पृथगिति प्रत्येकं आहुः ब्रुवते सर्वविद इति शेषः। सप्तभिरधिका पञ्चाशत् सप्तपञ्चाशत् तां सप्तपञ्चाशतमित्यत्रापि पूर्ववत् समासः। इह च स्मृता इति क्रियाभिसम्बन्धेनैवेष्टसिद्धौ यद् आहुः इति भिन्नक्रियाभिसम्बन्धित्वेन बन्धसंवरयोरभिधानम् तद् बन्धसंवरयोः सकलहेयोपादेयशेखरसंसार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org