________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
निःश्रेयसे प्रत्यव्यवहितहेतुत्वप्रतिपादनार्थं । तथाहि-कर्मणां बन्ध एव तावन्निरुपहतबीजवद्भवतरोरव्यवधानं निदानम्। तदभावे तदभावात् । संवर एव च साक्षात् मोक्षोपक्षेपको दहन इव दाहस्य, शैलेश्यवस्थायां सर्वसंवरानन्तरमेव कृत्स्नकर्मक्षयलक्षणमोक्षोत्पत्तेः। आस्रवनिर्जरयोस्तु भवापवर्गहेतुत्वेऽपि काष्ठस्येव दाहं प्रति न साक्षात्तद्धेतुत्वम्, किंतु बन्धसंवरोत्पादनद्वारेणैवेति युक्तमनयोभिन्नक्रियाभिसम्बन्धसम्पादनमिति। तत्राप्रशस्तकायव्यापारादिरूपस्यास्रवस्य समित्यादिभिः संवरणं निरोधनं संवरः। स च स्वात्मनि तावत् स्वसंवेदनाध्यक्षसिद्धः। समित्यादीनां शुभवागादिप्रवृत्तिरूपाणां स्वयमेव साक्षादनुभूयमानत्वात्, पुरुषान्तरे तु तत्कार्यदृष्टिवाग्विकारादेरुपलम्भादनुमानगम्यः। आगमस्त्वत्रापि पूर्वोक्तः सुप्रसिद्ध एव। तदयमपि प्रमाणत्रयोपपन्नत्वाच्छ्रद्धानोचित इति । अयं च समितिपञ्चक-गुप्तित्रय-दशविधयतिधर्म-द्वादशविधानुप्रेक्षाद्वाविंशतिभेदपरीषहतितिक्षा-पञ्चप्रकारचारित्ररूपतया सप्तपञ्चाशद्भेदः। तदुक्तम्
समिई गुत्ती धम्मो अणुपेह परीसहा चरित्तं च। सत्तावन्नं भेया पणतियभेयाइ संवरणे॥
अत्रापि यथाक्रमम्
इरियाभासा-एसण-आयाणाई तहा परिट्ठवणे। सम्म जाओ पवित्ती सा समिई पंचहा एवं॥ मणगुत्तिमाईयाओ गुत्तीओ तिन्नि हुंति णायव्वा। अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org