Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 65
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् . ३६ सामान्येनैवाशुभमनोवाक्कायप्रयोगजा प्रायोगिकी २१, अष्टविधकर्मपुद्गलानां समुपादानरूपा सर्वाऽपि समुदानक्रिया २२, मायालोभाभ्यां या चेष्टा रागजनकव्याहतिरूपा वा सा प्रेमप्रत्ययिका क्रिया द्विविधा २३, आत्मनः परस्य वा क्रोधाहङ्कारयोरुत्पादिका तु द्वेषप्रत्ययिका २४, छद्मस्थजिनानां केवलिनां वा केवलयोगप्रत्ययबन्धरूपा ऐर्यापथिकी क्रिया २५ । आसां च कथञ्चित् परस्परान्तर्भावेऽपि तत्तद्विशेषणवशाद्भेदोऽवसेयः। तथा चोक्तम् एसिं अंतरभावो परुप्परं जइवि होइ उ कहिंचि। तहवि विसेसणभेया भेओ सिं भावियचो ति॥ एवमन्येषामप्यास्त्रवसंवरबन्धादिभेदानां कथञ्चिदन्तर्भावेऽपि क्रियावत्तत्तद्विशेषणभेदाढ़ेदो बोद्धव्यः। विशेषव्याख्यानं तु क्रियाणां नवतत्त्वप्रकरणविवरणादवधारणीयम्॥ ___तथा प्रकृतयः स्वभावाः संसारिणां सत्त्वानां परिणामविशेषभूताः पापे इति पापविषये द्वाभ्यां अधिकाशीतिदर्यशीतिरिति मध्यपदलोपी समासः, एतत्संख्याः पापप्रकृतय इति षष्टीसप्तम्योरर्थं प्रत्यभेदात् पापस्येत्यर्थः। स्मृताः कथितास्तीर्थकृद्भिरिति शेषः। पापस्याप्यनुमानागमाभ्यां सिद्धिः, तत्रानुमानं देवदत्तसम्बद्धद्रव्यविशेषानुभावात्ततो धन-कनकादयो विघटन्ते, तन्नियतविघटनवत्त्वात् हरितालाद्यनुलिप्तमूषकात् मूषकान्तरवत् । अथवा दुःखमात्मनामान्तरकारणविशेषप्रभवम्, बाह्यकारणाभावेऽपि कदाचिदुपजायमानत्वात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142