________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
३०
हिमवद्विन्ध्ययो: श्लेषाभावे मेरु-नन्दनवनयोः श्लेषो निवर्त्तत इति । एवमिहापि निवर्त्यनिवर्त्तकयोरास्रवसंवरयोर्निवय॑निवर्त्तकभावस्तद्धर्मत्व एव, न तु तद्व्यतिरिक्तधर्मत्वेऽपि। एवमेकदेशकर्मक्षयलक्षणा निर्जराऽपि सर्वकर्मक्षयलक्षणो मोक्षोऽपि जीवाजीवाव्यतिरिक्तपरिणामरूप एवेति। तथा च सति कथञ्चित् परस्परतः साध्यसाधनादिभावविवक्षया तत्त्वानां सप्तत्वम् । पुण्यपापयोरपि बन्धात् कथञ्चिद्भेदविवक्षया नवरूपत्वम्। तथा च वक्ष्यति। 'सप्त द्वे नव वेत्यवेत बहुधा तत्त्वं विवक्षावशाद्' इति, तेन विवक्षातः सप्त-नवरूपत्वम्, परमार्थस्तु द्वित्वमेवेत्यभिप्रायः।
तथा पुण्यानवा इति, विधिविहितविशिष्टानुष्ठानसाध्यः प्रशस्ततीर्थकरत्वसातसौभाग्यादिसाधकः शुभात्मपरिणामविशेषः पुण्यम्, एतदप्यनुमानागमप्रतीतम्। तत्रानुमानं तावत् प्राणिनां लावण्यानन्दविशेषादिकं कारणविशेषजन्यं कार्यविशेषत्वात्। रसायनादिजन्यवपु:पुष्टिवत्। न त्वकारणं कार्यम्, आकस्मिकस्य हि नित्यं सत्त्वासत्त्वयोः प्रसङ्गात् । तस्माद्यदत्र कारणं तत्पुण्यं कर्मेति। न चात्र कर्मान्तराणां तद्धेतुता सम्भवति, तेषां प्रतिनियतज्ञानावारकत्वादिप्रातिस्विककार्यमात्रहेतुत्वेनैव सिद्धत्वात् । अयमभिप्रायः-आत्मा हि तावदास्रवेण मूलोत्तरकर्मप्रकृतीर्बध्नाति। तत्राप्युत्तरप्रकृतय एव पुण्यापुण्यसंज्ञकाः, न मूलप्रकृतयस्तासां ज्ञानावरणादिसंज्ञाभिधेयत्वात्। कथमेतदेवमिति चेदुच्यते—आस्रवो हि शुभाशुभरूपतया द्विविधस्तत्र च शुभास्रवजनितो बन्ध एव पुण्यशब्दवाच्यो यतस्तीर्थकरत्वादिद्विचत्वारिंशत्प्रकृतिप्रादुर्भावः। अशुभास्रवजनितस्तु पापशब्दवाच्यो यतोऽनिष्टगत्यादिव्यशीतिप्रकृतिप्रादुर्भावः। यद्यपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org