________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
धम्माधम्मागासा तिय तिय भेया तहेव अद्धा य। खंधा देसपएसा परमाणु अजीव चउदसहा ।।
[नवतत्त्व० ५] एषां च प्रत्यक्षानवगम्यत्वेऽपि गति-स्थाना-ऽवगाहन-वर्त्तनादिलिङ्गगम्यत्वम्, तत्र धर्मास्तिकायस्य तावज्जीवादयो द्रव्यविशेषावष्टब्धा गतिपरिणामवन्तो द्रव्यत्वाजलावष्टब्धमत्स्यवत्। न च मत्स्यादीनामपि तन्निरपेक्षा गतिरिति वाच्यम्। अन्तर्व्याप्तिबलेन सकलगतिप्रयोजकत्वेनानुमितस्य निखिललोकव्यापकस्य धर्मास्तिकायस्य तत्रापि विद्यमानत्वात्, न हि परेणापि दृश्यकुलालादिनिर्वर्त्य कुम्भादिकार्ये सकलकार्यप्रयोक्तुरदृश्यमानस्यापीश्वरस्य प्रयोक्तृत्वं नेष्यते। तस्मात् यज्जीवादीनां गतिपरिणामावष्टम्भकं तद्धर्मास्तिकायद्रव्यमिति । एवमधर्मास्तिकायादिष्वपि वाच्यम्। आगमश्चात्रोपदर्शित एव द्रव्य-देशप्रदेशस्वरूपाभिव्यक्तिश्च ग्रन्थान्तरादवसेयेति। इह च जगति द्वावेवैतौ जीवाजीवौ पदार्थों शेषाणां त्वास्रवादीनामशेषाणामपि तत्त्वानां जीवाजीवपरिणामविशेषरूपत्वेन कथञ्चित्तदव्यतिरिक्तत्वात्। तथाहिजीवस्यैव पुद्गलरूपकायवाङ्मानसानां व्यापरणरूपः परिणामस्तावदास्त्रवस्तस्माच्च शुभाशुभकर्मप्रकृतिप्रायोग्यकर्मवर्गणानामात्मप्रदेशैः सम्बन्धलक्षणो बन्धोऽपि तदव्यतिरिक्तस्तत्परिणाम एव, ततोऽनयोरत्यन्तव्यतिरेके हि आत्मनोऽबद्धत्वात् संसारित्वाभावः स्यात्। एवं पूर्वोदितास्रवनिरोधलक्षणः संवरोऽपि तत्परिणाम एव। यतो ययोरेवाङ्गल्योः स्वकारणात् पूर्वं संयोगोऽभूत्तयोरेव विघटननिमित्तप्रयत्नादिनिबन्धनो विभागोऽपि, न पुनरसावन्यधर्मस्तथा सति तयोः संयोगो न निवर्तेत, न हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org