SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ। जीवमरूवं कारिं भोई च सयस्स कम्मस्स॥ तथा प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मक इति। समस्ततत्त्वप्रतिपादकस्तु जीवाजीवा पुन्नं पावासवसंवरो य निज्जरणा। बंधो मुक्खो य तहा नव तत्ता होंति नायव्वा ।। [नवतत्त्व० १] पुण्यपापयोर्बन्धान्तर्भावे वाचकमुख्येनाप्युक्तम्- जीवाजीवास्रवसंवरनिर्जराबन्धमोक्षास्तत्त्वम् [तत्त्वार्थ० १।४] इति। प्रमाणत्रयसिद्धत्वेन तत्त्वरूपत्वाच्छ्रद्धानयोग्या जीवाः, एवमजीवादयोऽपीत्यत एषामत्र श्रद्धानोपदेशः। अजीवविधय इति, पूर्वोदितजीवलक्षणविकला अजीवा अचेतनपदार्थास्तेषां विधयः विधानानि प्रकारा इत्यर्थः। पञ्चैव इति पञ्चसंख्या एव, धर्मास्तिकाय-अधर्मास्तिकाया-ऽऽकाशास्तिकायकाल-पुद्गलास्तिकायभेदात्। एतच्च मूलभेदापेक्षयाऽवधारणं द्रष्टव्यम्। तदवान्तरभेदविवक्षया तु तेऽपि चतुर्दशविधाः। तथाहि—धर्मास्तिकायादयस्त्रयोऽपि प्रत्येकं द्रव्य-देश-प्रदेशभेदानिधेति नवविधाः, समयादिरूपस्तु काल एकविध एवेति दशविधत्वम्। पुद्गलास्तिकायस्तु स्कन्ध-देशप्रदेशरूपतया केवलपरमाणुरूपतया च चतुर्विधः, इति सर्वमीलने चतुर्दशविधत्वमजीवानाम् । तदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy