________________
૨૭
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
अयमेव सिद्धैः सहैकादशविधः। पृथिव्यादिभिस्त्रसान्तैः षड्भिरपर्याप्तपर्याप्तभेदाद् द्वादशविधः। स एवाशरीरसिद्धसहितस्त्रयोदशविधः। सूक्ष्मेतरैरेकेन्द्रियैर्द्वित्रिचतुरिन्द्रियैरसंज्ञिसंज्ञिपञ्चेन्द्रियैश्चापर्याप्तपर्याप्तभेदाच्चतुर्दशविधः। तथा चोक्तम्
एगिंदिय सुहुमियरा सन्नियरपणिंदिया सबितिचउरो। पज्जत्तापज्जत्तगभेएणं चउद्दसग्गामा ॥
एवं पञ्चदशविधत्वादयोऽपि भेदाः स्वधिया प्रेक्षावद्भिरभ्यूह्यन्त इति, जीवा भूरिभिदाः स्मृता इति योगः। एते च प्रत्यक्षानुमानागमगम्याः। तत्र प्रत्यक्षं तावदहं सुखी अहं दुःखीत्यादि स्वसंवेदनम्। अनुमानं तु जीवच्छरीरं प्रयत्नवदधिष्ठितं प्रतिनियतक्रियावत्त्वात् सूताधिष्टितस्यन्दनवत्। अथवा नयननिमेषोन्मेषादिक्रिया प्रयत्नवत्कर्तृका प्रतिनियतक्रियात्वात् पुरुषाधिष्ठितदारुयन्त्रक्रियावत्। योऽत्र कर्ता प्रयत्नवान् स एव चेतन आत्मेति, न चासौ शरीरेन्द्रियादिष्वन्यतमस्तेषां भूतपरिणामरूपतया घटादिवदचेतनत्वात्। न च गुड-धातक्यादीनां मद्याङ्गानां मदशक्तिरिव शरीरादिरूपपरिणतिविशेषापन्नानां भूतानामपि चैतन्यं भविष्यतीति वाच्यम्। तत्रापि तदारम्भकपरमाण्वादीनां तावत् प्रत्येकं चैतन्ये एकस्मिन्नेव देहादावनेकचेतनसद्भावात् नैकमत्येन प्रवृत्त्यादयः स्युः। यदि तु समुदितानामेव चैतन्यं तदा हस्तादिच्छेदेऽनुभव-स्मृत्यादयो न भवेयुः। एकावयवापगमेऽपि समुदायस्याभावात्। तस्माद्भूतव्यतिरिक्तोऽन्य एव कश्चिद्देहाधिष्ठाता जीव इति। आगमश्च ‘एगे आया' [स्थानाङ्ग० सू० १] इत्यादि। तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org