________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
૨૬
प्रीतिस्तत्त्व इति पञ्चमं द्वारं विवरीषुः सप्रभेदनवतत्त्वप्रतिपादनपुरःसरं तेषु श्रद्धानोपदेशमाहजीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्यास्त्रवौ
भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे व्यशीतिः स्मृताः। भेदान् संवरबन्धयोः पृथगथाहुः सप्तपञ्चाशतं . मोक्षो देशविनिर्जरेति च नव श्रद्धत्त तत्त्वानि भोः!॥१२॥ व्याख्या-जीवितवन्तो जीवन्ति जीविष्यन्तीति जीवाः औपशमिकादिभावान्विताः साकारानाकारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानक्रियासु एककर्तृत्वप्रतीतिहेतवस्तत्फलभुजोऽमूर्तस्वभावाः सत्त्वाः भूरिभिदा अनेकप्रकाराः एक-द्विव्यादिभिस्तदवान्तरैश्चासंख्येयाऽनन्तादिभिर्भेदैः प्रत्येकं नानारूपत्वात् । तथाहि-चेतनालक्षणत्वेनैकविधो जीवः। भवस्थ-सिद्धरूपतया तु द्विविधः, भवस्थोऽपि भव्याभव्यरूपतया त्रसस्थावररूपतया वा द्विविधः। स्त्रीपुन्नपुंसकतया त्रिविधः। नारकतिर्यग्नरामरभेदाच्चतुर्विधः। त्रसादिविशेषविवक्षया चैक-द्वि-त्रि-चतुः-पञ्चेन्द्रियरूपतया पञ्चविधः। पञ्चविधोऽपि चायम् अनिन्द्रियसिद्धसहित: षड्विधः। भूजलानलानिलवनस्पतित्रसरूपतया वा षड्विधः। भूजलादिषड्विधोऽप्यकायसिद्धसहितः सप्तविधः। अण्डज १ पोतज २ रसज ३ जरायुज ४ संस्वेदज ५ सम्मूर्च्छनज ६ उद्भिज्ज ७
औपपातिक ८ भेदादष्टविधः। पृथिव्यादयः पञ्च द्वि-त्रि-चतु:पञ्चेन्द्रियश्चेति नवविधः। नारकाणां नपुसंकत्वेन तिर्यग्नरयोश्च प्रत्येकं स्त्रीपुनपुंसकत्वेन, सुराणां च पुंस्त्रीरूपत्वेन वा नवविधः। पृथिव्यादयश्चतुरिन्द्रियान्ता अष्टौ पञ्चेन्द्रियस्त्वसंज्ञिसंज्ञिभेदाद् द्विविध इति दशविधः।
Jain Education International
For Privafe & Personal Use Only
www.jainelibrary.org