________________
ર૬
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
आशिश्राय। तत्र हि जलानि नीचगामिनि । तैः सहैकत्र वासात्तद्गुणग्रहस्तिलानामिव चम्पककुसुमगन्धग्रहः, इह इवादिशब्दस्योत्प्रेक्षावाचकस्याभावेऽपि वस्तुवृत्त्या जलेभ्यो नीचगत्वस्य भजनात् कविनोत्प्रेक्ष्यत एवेत्युत्प्रेक्षा। एवं वक्ष्यमाणवाक्ययोरपि नीचशब्दश्च निम्नाधमवाचकत्वेन श्लिष्टः। तथा कल्लोलेभ्यो वीचिभ्यस्तथैव चलत्वं चञ्चलत्वमभजदिति योगः, इयमप्युत्प्रेक्षैव। ईश्वरो हि प्रायश्चञ्चल एव चित्तेन भवति । तदत्रापि चल-शब्दः श्लिष्टः। तथा स्मृतिरनुभूतस्य स्मरणम्, मतिः बुद्धिस्तयोर्हरणं नाशनमर्थादीश्वरस्य लक्ष्मीरभजत्। कुतः? कालकूटच्छटाभ्यः सद्योघातिविषप्रवाहेभ्यः। कालकूटमपि क्षीरोदधौ वसतीति लोकप्रसिद्धिस्ततस्तत्सहवासात् स्मृत्यादिध्वंसगुणग्रहः। इयमपि पूर्ववदुत्प्रेक्षैव। अत्र चादौ संसृष्ट्यलङ्कारेणेत्युक्तम्, तल्लक्षणं त्वेवम्-सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः [काव्यप्रकाश सू० २०७] इति। एतेषामलङ्काराणां तदत्र विभावनोत्प्रेक्षयोर्भिन्नयोळक्ततया प्रकाशोऽस्ति। तथाहि-आद्या॰ अचैतन्यादिकारणभूतानां निद्रादीनामभावेऽस्य चैतन्यादिकार्याणां सद्भावः प्रतिपादितस्ततः कारणाभावेऽपि कार्यसद्भावाद्विभावना। तथा च तल्लक्षणंक्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना। [काव्यप्रकाश सू० १६२] इति। द्वितीया॰ तु नीचगत्वादीनां जलसर्पणादिभ्य उत्प्रेक्षितत्वादुत्प्रेक्षा। तल्लक्षणमप्येवं-सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् [काव्यप्रकाश सूत्र १३८] इति। तदेवमनयोर्द्वयोरालङ्कारयोर्व्यक्ततयाऽत्र प्रकाशनात् संसृष्टिरिति । एवं च त्वरभेदादीनामचैतन्यादीनां नीचगामित्वादीनां चानेकेषां दोषाणामर्थे सद्भावादिहलोके परलोकेऽपि तत्रासक्तौ नानानारकादियातनाभावाद्भव्यानां विवेकिनामर्थे विरक्तिरेव युक्तेति भाव इति वृत्तार्थः ॥ ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org