________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
૨૪
निद्रामुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां
लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः। किञ्च क्षीराब्धिवासिन्यभजदिममपां सर्पणानीचगत्वं
कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः॥११॥ व्याख्या-किञ्चेति पदं वृत्तमध्यस्थितमभ्युच्चयार्थमादौ द्रष्टव्यम् । ततश्च लक्ष्मीरचैतन्यबीजं वर्त्तत इति क्रियाध्याहारः। निद्रामुद्रां स्वापावस्थां विनैव अन्तरेणापि। मुद्राशब्दः शोभावचनः। स्फुटं व्यक्तम् अपरं प्रसिद्धनिद्रायाः सकाशादन्यत्। किमित्याह—अचैतन्यबीजम् अचेतनतायाः पदार्थाननुभवस्य कारणं जनानाम् ईश्वरलोकानाम्। केत्याह–लक्ष्मीः धनकनकादिसमृद्धिः, ईश्वरो हि प्रायः किमपि न चेतयत इति भावः। तथा प्रकटं व्यक्तं यथा भवत्येवमेषा अक्ष्णः चक्षुरिन्द्रियस्यापटलः पटलं नीलीरूपो नेत्ररोगविशेषस्तदभाववानन्धभावोऽदर्शनसद्भावः। पटलं हि प्रायेणान्ध्यनिमित्तमियं तु तद्विनाऽपि दर्शनाभावनिमित्तम् । तथा चोच्यते
लच्छीकरकमलवियासरेणुपूरिज्जमाण नयणेहिं। पासट्ठिया वि दीसंति नेव रोरा धणड्डेहिं॥
] .
तथेयं लक्ष्मीः सन्निपातः समस्तशरीरचेष्टानिरोधकृद् व्याधिविशेषः। कीदृश इत्याह—न विद्यन्ते त्रयो दोषा वात-पित्त-श्लेष्मप्रकोपविशेषरूपा यत्र स तथा। सन्निपातो हि सर्वदापि त्रिदोषज एव, लक्ष्मीः पुनस्तदभावेऽपि सर्वथा विशिष्टचेष्टापहारिणीति भावः। किञ्चेति योजितमेव । इयं हि लोके क्षीराब्धिवासिनी इति प्रसिद्धा। ततश्चेयं लक्ष्मी: नीचगत्वमधमपुरुषानुसरणं नूनम् अपां जलानां सर्पणात् नीचप्रदेशगमनाद् अभजद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org