________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
पहारादौ मानसी विबाधा, अविश्वासः पुत्रमित्रादेरप्यविश्रम्भः, ततश्च त्वग्भेदश्च छेदश्चेत्यादि द्वन्द्वे तेषां हेतुः कारणम् । अनेनानर्थहेतुत्वमर्थस्योक्तम् । अथार्थध्वंसकत्वमाह - प्रशमः क्रोधाभाव:, दमः इन्द्रियजयः, दया निर्निमित्तपरदुःखप्रहाणेच्छा ता एव धार्मिकाणामनवरतप्रसरणशीलत्वात् साधर्म्याद्वल्लर्यः वल्लयस्तासां सर्वथा दाहकत्वाद्धूमकेतुर्वैश्वानरः । अर्थे हि सति प्रायः स्वल्पेऽप्यपराधे महान् क्रोधः सर्वेन्द्रियविषयलाम्पट्यं परवञ्चन-मारणे च भवन्ति । दृश्यन्ते हि सम्प्रत्यपि धनिभिः स्वधनविधानीकरणानन्तरं कारागृहानीतपुरुषा व्यापाद्यमानाः । एवंविधमर्थं कनकरत्नादिलक्ष्मीरूपं वित्तम्। तथा निःशेषाः समस्ता ये दोषाः राग-द्वेष - मत्सरेर्ष्यादयः त एव चौर्य-पारदारिकत्व-द्रोहादिमहाविटपिनिबन्धनत्वादङ्कुराः प्रथमोद्भेदास्तेषां भरः प्राग्भारस्तस्य जननमुत्पादनं तत्र प्रावृषेण्याम्बु वर्षाकालजलम्, तेन ह्यङ्कुरा अत्यन्तं वर्द्धन्त इति कृत्वा । किमित्याह — धूत्वा विक्षिप्य सर्वथा परिहृत्येत्यर्थः, न केवलमर्थं धूत्वा किन्तु तदङ्गीकारहेतुं लोभप्ररोहं च लोभो गाद्धर्म्यं स एव नानादुश्चिन्तालताप्रादुर्भावकत्वात् प्ररोहः अङ्करस्तं च लूत्वा सर्वथोन्मूल्य चकारोऽत्र लुप्तो द्रष्टव्यः । ततः किमित्याह—धत्त धारयत भो भव्या इति प्रकृतम् । कमित्याह - सन्तोषः परिग्रहेच्छानिवृत्तिस्तस्य पोषः वृद्धिस्तम् । कीदृशमित्याह - सुगते : स्वर्गापवर्गादिरूपाया: शोभनगतेः पन्थाः प्राप्तिमार्ग : सच्चारित्रादिस्तत्र रथं स्यन्दनम्, स्यन्दनेनेव सन्तोषपोषेण सच्चारित्रमार्गगमनेन सद्गतिपुरी प्राप्यत इति भाव इति वृत्तार्थः॥ १०॥
२३
3
अथ संसृष्ट्यलङ्कारेणार्थविरक्तिविशेषसम्पादनार्थमर्थस्य दोषविशेषानाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org