________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
तिलयन्त्रे निपीडयति। एष गुणिसङ्गत्यागी। का इत्याह-स्थवीयांसि अत्यन्तस्थूलानि यानि स्थलतलानि सिकताकूटविशेषास्तेषाम्, सिकता वालुकास्ताः। स्थूलशब्दस्य ईयन्सि प्रत्यये अन्तस्थालकारलोपे गुणे च स्थवीयांसीति भवति। किमर्थम् इत्याह—तैलहेतोः तिलनिर्यासनिष्पत्तिनिमित्तम्, न च कदाचित् सिकतासु तैलसम्भवः। आदौ निदर्शनालङ्कारेणेत्युक्तम्, तत्र निदर्शनलक्षणं त्वेवम्-अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः [काव्यप्रकाश सूत्र १५०] इति। तदत्र सत्सङ्ग विना यः सद्धर्मान्वेषी स चन्द्रिकाभिः स्नात इत्युक्तम्। चन्द्रिकास्नानं च नासौ करोतीति वस्तुसम्बन्धाभावे उपमानोपमेयभावः प्रवर्त्तते । यथा चन्द्रिकाभिः स्नानमसम्भवि तथा सत्सङ्गाभावे धर्मोऽपीति। एवं मृगतृष्णा- तृष्ण्या तृप्तादिचतुष्टयेऽपि योज्यम्। तस्माद्धर्मार्थिनाऽवश्यं सत्सङ्गो विधेय इत्युपदेश इति वृत्तार्थः ॥ ९॥
अथाऽर्थे विरक्तिरिति चतुर्थं द्वारमर्थदोषप्रदर्शनपुरस्सरं विवृण्वन्नुपदेशमाहत्वग्भेदच्छेदखेदव्यसनपरिभवाप्रीति-भीति-प्रमीति
क्लेशाविश्वासहेतुं प्रशमदमदयावल्लरीधूमकेतुम्। अर्थं निःशेषदोषाङ्करभरजननप्रावृषेण्याम्बु धूत्वा
लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम्॥१०॥ व्याख्या-अर्थं धूत्वा सन्तोषपोषं धत्तेति सम्बन्धः । कीदृशमर्थम् इत्याह त्वचः शारीरचर्मणो भेदस्तप्तसन्दंशादिना विदारणम्, छेदः कर्त्तनं हस्तादेः, खेदः उपार्जनादौ शारीरः श्रमः, व्यसनं राज-चौराद्युपद्रवः, परिभवः कदाचिन्नृपेण बन्दिप्रक्षेपेऽत्यन्तनीचकर्मकरादेरप्याक्रोशताडनादितिरस्कारः, अप्रीतिः लोभाभिभूतपितृपुत्रादेरपि स्नेहध्वंसः, भीतिः नृप-दायाद-चौरादेस्त्रासः, प्रमीतिर्मरणमपि कदाचित्, क्लेशः कदाचिद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org