________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
व्याख्या - यो गुणिसम्बन्धमुज्झन् धर्ममिच्छेत् स चन्द्रिकास्नानादिकं कुर्यादिति सम्बन्धः । यः कश्चिदविवेकी पुरुषः सङ्गमालापादिसम्पर्कमुज्झन् परित्यजन् । कैः सहेत्याह – ज्ञानं च क्रिया च प्रत्युपेक्षादिसमाचारी, ते विद्येते येषां ते ज्ञान-क्रियावन्तस्ते च ते गुणिनश्च पूर्वोक्तास्तैरपि, आस्तां निर्गुणैरित्यपेरर्थः । किमित्याह - इच्छेत् अभिलषेत् धर्मं निःश्रेयसानुगुणमनुष्ठानम् । कीदृशम् ? परं प्रकृष्टमक्षेपेण मोक्षसाधकं कर्तुमिति शेषः । किमर्थम् इत्याह- शिवाय मोक्षायेति । स गुणिसङ्गत्यागी परमार्थतः किं किं कुर्यादित्याह – स्नातः स्नानं कृतवान्। काभिरित्याह— चन्द्रिकाभिः चन्द्रज्योत्स्नाभिः, न खलु सलिलसाध्यं स्नानमसलिलरूपाभिर्ज्योत्स्नाभिः सम्भवति, परं स तदपि कृतवान्। अन्यदपि किमसौ कृतवानित्याह — स च गुणसम्पर्कत्यागी, किलेत्यलीके, तृप्तः सौहित्यवान् सम्पन्नः। कैरित्याह— ग्रीष्मे मरौ तप्तभूमिषु स्वच्छासु प्रतिफलिता दिवा - करकरा एव मृगतृष्णा, सैव जलाकारतया भ्रान्त्या प्रतिभासनाज्जलानि सलिलानि तैरेव, न तु पारमार्थिकैरित्यवधारणार्थः । वक्ष्यमाणवाक्यत्रये धत्ते बिभर्त्तीत्यादि वर्त्तमाननिर्देशेऽपि, यदत्र वाक्यद्वये स्नात इत्याद्यतीतकालनिर्देशः सोऽत्यन्तमुग्धस्य गुणिसङ्गवर्जनेन धर्मेच्छामात्रेणाप्यसत्कार्यस्य सिद्धत्वख्यापनार्थस्तेन वक्ष्यमाणेष्वपि त्रिषु सिद्धत्वमेव बोद्धव्यमिति भावः ।
२१
तथा स पुरुषः खाब्जैः गगनकमलैः करणभूतैर्मालां स्रजं धत्ते विभूषार्थं धारयति शिरसि मस्तके, न चाकाशे कमलसम्भवः। तथा स पुरुषः शशशृङ्गाज्जातं गेहादित्वादीये शशशृङ्गीयं तच्च तच्चापं च धनुश्च बिभर्त्ति बाणसन्धानाय धारयति । न च शशे शृङ्गसम्भवः । तथा मथ्नाति १. 'गहादिभ्यः [ सि० ६ । ३ । ६३] एभ्यो यथासम्भवं देशार्थेभ्य: शेषे ईयः स्यात् । गहीयः । ' सिद्ध० लघु० । गहादिभ्यश्च । ४ । २ । १३८ । १३६४ - पा० सिद्धान्त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org