________________
૨૦
धर्मशिक्षा-प्रकरणं सवृत्तिकम् समवायात्तथेति चेत्? तन्न, तस्य निराकृतत्वात्, तन्निराकरणं च विशेषतोऽभयदेवादिग्रन्थात् ज्ञेयम् । तथा च गुण्यनुरागो गुणानुराग एवेति न वैयधिकरण्यम्। यदिति योजितमेव। यस्माद् गुणिरागो गुणराग एव, गुणाश्च सर्वत्रैकरूपा एव, ततस्तस्मादेकत्र गुणिनि रागे कृते, सर्वेष्वेव गुणिषु गच्छन्ति तिष्ठन्तीति सर्वगास्ते च ते सद्गुणाश्च शोभनज्ञानादिधर्माश्च तेषामनुमननम् अनुमोदनं भावप्रतिपत्तिरूपं कृतं स्यादिति शेषः। ततोऽपि किमित्याह-तस्माच्च, चः पुनरर्थस्तस्मात् सद्गुणानुमननात् सम्यक्त्वबीजभूतात्। किमित्याह-सत् शोभनं दर्शनं सम्यक्त्वं क्षायोपशमिकादिकम्, आदिशब्दात् क्रमशश्चारित्र-क्षपक श्रेण्यादिकमपि स्यात् । अतोऽपि किमित्याह-अस्मात् सद्दर्शनादेः सर्वं शुभं समस्तं स्वर्गापवर्गादि कल्याणं स्यात्। तत इत्यन्ते वर्तमानं पदमत्र योज्यते। यत एवंगुणो गुणिव्यतिकर आचार्यादिसम्पर्कस्ततः कार्यः विधेयः सदा सर्वकालम्, न तु कदाचिदेव। कैरित्याह-आराद्दूरे यान्ति पापेभ्य इत्यार्याः शिष्टास्तैरिति कर्तृपदम्। अयमभिप्रायः-गुणिरागमन्तरेण न सर्वगुणिगुणानुमननम्, तदन्तरेण च न सद्दर्शनादिकम्, तदन्तरेण च न सर्वशुभावाप्तिरिति सर्वकल्याणमूलत्वादस्यावश्यकर्त्तव्यत्वोपदेश इति वृत्तार्थः ॥ ८॥ ____ अथ निदर्शनालङ्कारेण प्रभूतासम्पद्यमानपदार्थसम्पत्तिदृष्टान्तेन गुणिजनसम्बन्धव्यतिरेकेण धर्मसम्पत्त्यभावमाहस स्नातश्चन्द्रिकाभिः स च किल मृगतृष्णाजलैरेव तृप्तः
खाब्जैर्मालां स धत्ते शिरसि स शशशृङ्गीयचापं बिभर्ति। मनात्येष स्थवीयस्थलतलसिकतास्तैलहेतोर्य उज्झन्
सङ्गं ज्ञानक्रियावद्गुणिभिरपि परं धर्ममिच्छेच्छिवाय॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org