________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
न केवलमभिध्येयम्, विधेयं च कर्त्तव्यं तप इति, आन्तरकार्मणशरीरतापनात्तपोऽनशनादिकं भव्यैरिति प्रकृतम्। अयमभिप्रायः-अनुध्याने सत्यपि यावन्न क्रियया तत्र प्रवृत्यते तावन्न फलसिद्धिः। क्रियैव फलद पुंसां न ज्ञानम् [ ] इत्यादि वचनात्। तत्रापि न शक्तयादिचतुष्टयाभावे तथाविधफलावाप्तिरित्येतच्चतुष्टयमुक्तमिति । प्रौढायां कस्तयुक्तश्च [रुद्रट० काव्यालं० २। २४] इति वचनादत्र प्रौढा नाम वृत्तिः। तथाऽत्र लाटीया पञ्च सप्त वा यावद् [रुद्रट० काव्यालं० २।४] इति वचनालाटीया नाम रीतिरिति वृत्तद्वयार्थः॥ ७॥
अथ गुणिजने सक्तिरिति तृतीयं द्वारं फलोपदर्शनद्वारेणोपदिशन्नाहज्ञानादित्रयवान् जनो गुणिजनस्तत्सङ्गमात् सम्भवे
स्नेहस्तेषु स तत्त्वतो गुणिगुणैकात्म्याद् गुणेष्वेव यत्। तस्मात् सर्वगसद्गुणानुमननं तस्माच्च सदर्शना
द्यस्मात् सर्वशुभं गुणिव्यतिकरः कार्यः सदाऽऽयस्ततः॥८॥ व्याख्या-ज्ञानं सम्यगवबोधस्तदादिर्ययोर्दर्शन-चारित्रयोस्ते ज्ञानादयो गुणाः, तद्गुणसंविज्ञानोऽयं बहुव्रीहिः, तेन ज्ञानादीनां त्रयं त्रितयं तद्विद्यते यस्य जनस्य असौ ज्ञानादित्रयवान् जनः आचार्यादिलोकः। किम्? गुणी गुणवान् जनः गुणिजनः पूज्यलोकः। ततः किमित्याह—तैर्गुणिभिः सह सङ्गमात् आलापादिसम्पर्कात् सम्पद्येत स्नेहो धर्मानुरागस्तेष्वाचार्यादिषु। ततोऽपि किमित्याह—यद् यस्मात् स स्नेहः तत्त्वतः परमार्थवृत्त्या गुणेष्वेव ज्ञानादिषु । ननु गुणिषु स्नेहः कथं गुणेषु स्यात् व्यधिकरणत्वादत आह—गुणिनाम् आचार्यादीनां गुणैः ज्ञानादिभिः सहैकात्म्यात्, एकोऽभिन्न आत्मा स्वरूपं येषां ते तथा, तेषां भावस्तस्मादभेदादित्यर्थः। न हि कदाचिदात्मनः सकाशाद्भिनदेशत्वेनोपलभ्यन्ते ज्ञानादयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org