________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
I
,
तीर्थकरत्वंनामादयोऽपि भवोपग्राहिकर्मचतुष्टयोत्तरप्रकृतय एव । तथापि शुभास्रवजनितपुण्यशब्दवाच्यबन्धादेव प्रादुर्भवन्तीति । तज्जन्या अभिधीयन्त इति । इह च स्वसंवेदनप्रत्यक्षसिद्धशुभप्रकृतिस्वभावलावण्यादिदृष्टान्तावष्टम्भेन शेषाणामपि तीर्थकरत्वादिशुभप्रकृतीनां तत्कारणताऽनुमातव्येति । तथाहि—तीर्थकरत्वादयोऽपि पुण्यजन्याः शुभप्रकृतित्वाल्लावण्यानन्दादिवत् । अथवा स्रक्चन्दनादीनि सुखसाधनानि देवदत्तसम्बद्धद्रव्यविशेषाकृष्टानि देवदत्तमुपसर्पन्ति । तं प्रति नियतोपसर्पणवत्त्वात्। कामुकविहिततिलकाकृष्टयोषिदादिवत्, यत्तदाकृष्टिहेतुद्रव्यं तत् पुण्यमिति। अत्र च हेतौ प्रतिनियतेति विशेषणं पवनप्रेरितपताकादिनाऽनैकान्तिकत्वपरिहारार्थम् । न च देवदत्तगुणाकृष्टाः पश्वादयो देवदत्तमुपसर्पन्ति तं प्रतिनियतोपसर्पणत्वात्, तत्प्रयत्नप्रेरितग्रासादिवदित्यनेन तस्यादृष्ट रूपगुणसाधनेन बाधितत्वात् कालात्ययापदिष्टत्वमस्येति वाच्यम् । अष्टविधस्यापि कर्मणो वक्ष्यमाणेन सकलदोषविकलेनानुमानेन द्रव्यत्वस्य सिद्धेर्गुणत्वप्रसाधक स्यास्यापहृतविषत्वेनोत्थानस्यैवासम्भवादिति । किञ्च, संसारस्य जीवस्य चानादित्वादेकत्र च भवेऽनन्तं कालमनवस्थानादवश्यं भवान्तरगामित्वमप्यस्याङ्गीकर्त्तव्यम् । न च युक्तिविकलतया केवलागमाश्रयणरूपत्वेनास्य पक्षस्याभिधानमयुक्तमिति वाच्यम् । अत्रार्थे उपपत्तेरपि भावात् । तथाहि —तदहर्जातस्य स्तन्यादौ प्रवृत्तिस्तदभिलाषपूर्विका तादृक्प्रवृत्तित्वात्, मध्यदशाप्रवृत्तिवत् । अभिलाषश्च न संस्कारानुभवादन्तरेण । न च तत्र भवे तस्य तदर्थानुभवस्ततो नूनं भवान्तरानुभूतसंस्कारादत्र भवे तदभिलाष इति पूर्वभवानुभवसिद्धिस्तस्य । एवं पूर्वपूर्वतरभवेष्वपीत्युपपत्त्यापि भवान्तरगामित्वसिद्धिरात्मनः । तथा च
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org