________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
રૂર
जुत्तीए अविरुद्धो सयागमो सा वि तयविरुद्ध त्ति। इय अन्नुन्नाणुगयं उभयं पडिवत्तिहेउ ति ।।
[इति] वचनात् शुभेतरयोर्भवयोरवश्यमस्य गतिः, ततश्च चेतनस्य स्वपरज्ञस्यः, तदात्मनो देवाद्युत्पत्तिस्थानाश्रयणं तत्सम्बद्धान्यनिमित्तं अन्यानेयस्य सतस्तदाश्रयणत्वात्। उपभुक्तातिस्निग्धपरिपूर्णक्षीरादिभोजनचक्रवर्तिमहार्हशय्याश्रयणवदिति, यत्तदन्यत् सम्बद्धं द्रव्यं तत्पुण्यमित्यतोऽप्यनुमानादस्य सिद्धिः। अस्य च देवाद्यायुःप्राप्तिहेतुत्वेन तत्रापि तत्सुखविशेषावाप्तिहेतुत्वेन चाऽवान्तरासंख्येयभेदत्वं प्रतिपत्तव्यमिति। आगमस्त्वत्र पूर्वोक्तः प्रसिद्ध एव। आस्रवस्तु आस्तूयते-परिपूर्यते स्रोतोभिरिव पापजलैरात्मसरो यैस्ते आस्रवा:-कषायादयः, अथवा आस्रवति यत: कर्म स आस्रवः कायवाङ्मनोव्यापारः, अयमपि स्वसंवेदनप्रत्यक्षसिद्धः, सर्वेषामपि कायादिव्यापारस्य स्वकीयस्वात्मनैवानुभूयमानत्वात्। संवेद्यमानशुभाशुभप्रकृतिबन्धनिमित्तत्वेन चानुमानगम्योऽपि। तथाहि आत्मनां कर्मबन्धो बन्धनिमित्तविशेषप्रयुक्तो बन्धत्वात्, स्नेहाभ्यक्तरजोबन्धवत्। यदत्र स्नेहस्थानीयं दुष्टमनोव्यापारादिरूपं कषाया-ऽविरत्यादिकं तदेवास्त्रव इति । आगमश्चात्रापि पूर्वोपदर्शित एव द्रष्टव्यः। ततश्च पुण्यं चास्रवश्चेति पुण्यास्रवौ भिन्नौ पृथग्भूतौ प्रत्येकमित्यर्थः। षड्भिर्गुणिताः षड्गुणास्ते च ते सप्त च षड्गुण-सप्त, द्विचत्वारिंशदिति यावत्ततश्च षड्गुणसप्तभिः प्रकारैः षड्गुणसप्तधेति । पुण्यं द्विचत्वारिंशद्भेदमास्रवश्चेत्यर्थः। अत्र च आयुघृतमितिवत् कार्ये कारणोपचारात् स्फुटतरोपलभ्यमानतत्कार्यरूपाः प्रकृतयः पुण्यशब्देनोच्यन्ते । एवं पापेऽपि भावनीयम् । ताश्च भवोपग्राहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org