________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कर्मचतुष्टय एव, न तु घातिकर्मसु । तदुत्तरप्रकृतीनां पापरूपत्वात् । तथाहि वेदनीयकर्मणि तावत् सातम्, आयुषि सुरनरतिर्यगायूंषि, गोत्रे चोच्वैर्गोत्रम्, नामकर्मणि तु सप्तत्रिंशदिति । तथा चोक्तम्
नरतिरिसुराउमुच्चं सायं परघाय आयवुज्जोयं। तित्थोसासनिमेणं पणिदिवइरुसभ चउरंसं॥ तस दस चउवन्नाई सुरमणुदुगपंचतणुउवंगतिगं। अगुरु लहु पढमखगई बायालीसं ति सुहपयडी॥
अत्र चेदं त्रसदशकम्
तस-बायरपज्जत्तं पत्तेयं थिरं सुभं च सुभगं च। सूसर आइज्ज जसं तसदसगं होइ विनेयं॥
इह च आत्मनश्चिरजीवित्वादिरूपपरिणाम एवायुस्तदुदयवेद्या कर्मप्रकृतिरप्यायुरेवं त्रसबादरादिष्वपि भावनीयम् । तथा च पिण्डप्रकृती-चक्षाणेन उक्तं कर्मस्तवटीकाकृता-गच्छन्ति प्राप्नुवन्ति तथाविधकर्मोदयसचिवा जीवास्तामिति गति रकादिपर्यायपरिणतिस्तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः सैव नाम गतिनाम [प्राचीन-द्वितीयकर्मग्रन्थवृत्तौ] इति। एवं जात्यादिनामस्वपीति। वर्णादयोऽपि शुभरूपाः श्वेतादय एवात्र ग्राह्याः। इतरेषां पापप्रकृतिषु ग्रहणात् । आस्रवस्तु यद्यपि तीर्थकरत्वादिनारकत्वादिरूपपुण्य-पापसाधकतमत्वेन शुभाशुभरूपतया द्विविधः। यदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org