________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
३४
सुहदुहरूवो नियमेण अत्थि तह आसवो भवत्थाणं। सदणुट्ठाणा पढमो पाणवहाईहि बीओ उ।[ ] त्ति
तथाप्यत्राशुभरूप एव ग्राह्यस्तस्यैव द्विचत्वारिंशद्भेदत्वात् । इतरस्य त्वेतन्निरोधरूपस्य पापात् पुण्यस्येव संवरसंज्ञत्वेन तत्त्वान्तरतया प्रतिपादयिष्यमाणत्वात् । अयं च कायादिव्यापाररूपोऽपि व्रीहीन् वर्षति पर्जन्य इतिवत् कारणे कार्योपचाराद् द्विचत्वारिंशद्भेदः, तथाहि पञ्चेन्द्रियाण्यव्रतानि च कषायाश्चत्वारः क्रियाः पञ्चविंशतिर्मनःप्रभृतयश्चाशुभास्त्रयो योगा इति द्विचत्वारिंशत्। तदुक्तम्
इंदिय-कसाय-अव्वय-किरिया पण-चउर-पंच-पणुवीसा। जोगा तिन्नेव भवे बायालं आसवो होई॥
[
अत्र चेन्द्रियादयः प्रसिद्धा एव। क्रिया त्वेवं दृश्या
काइयकिरिया अहिगरणिया य पाओसियाऽपराकिरिया। पारित्तावणिया वि य पाणाईवायकिरिया य ॥ आरंभिया परिग्गहिया तह मायवत्तिया किरिया। मिच्छादसणवत्तिय अपच्चक्खाणकिरिया य॥ अन्ना वि दिट्ठीया पुट्ठिया य पाडुच्चिया य किरिय त्ति। सामंतोवणिवाइय नेसत्थिय तह य साहत्थी॥ आणवणि वियारणिया अणभोगा अणवकंखपच्चईया। अन्ना पओगकिरिया अवरा समुदायकिरियाओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org