Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 58
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् धम्माधम्मागासा तिय तिय भेया तहेव अद्धा य। खंधा देसपएसा परमाणु अजीव चउदसहा ।। [नवतत्त्व० ५] एषां च प्रत्यक्षानवगम्यत्वेऽपि गति-स्थाना-ऽवगाहन-वर्त्तनादिलिङ्गगम्यत्वम्, तत्र धर्मास्तिकायस्य तावज्जीवादयो द्रव्यविशेषावष्टब्धा गतिपरिणामवन्तो द्रव्यत्वाजलावष्टब्धमत्स्यवत्। न च मत्स्यादीनामपि तन्निरपेक्षा गतिरिति वाच्यम्। अन्तर्व्याप्तिबलेन सकलगतिप्रयोजकत्वेनानुमितस्य निखिललोकव्यापकस्य धर्मास्तिकायस्य तत्रापि विद्यमानत्वात्, न हि परेणापि दृश्यकुलालादिनिर्वर्त्य कुम्भादिकार्ये सकलकार्यप्रयोक्तुरदृश्यमानस्यापीश्वरस्य प्रयोक्तृत्वं नेष्यते। तस्मात् यज्जीवादीनां गतिपरिणामावष्टम्भकं तद्धर्मास्तिकायद्रव्यमिति । एवमधर्मास्तिकायादिष्वपि वाच्यम्। आगमश्चात्रोपदर्शित एव द्रव्य-देशप्रदेशस्वरूपाभिव्यक्तिश्च ग्रन्थान्तरादवसेयेति। इह च जगति द्वावेवैतौ जीवाजीवौ पदार्थों शेषाणां त्वास्रवादीनामशेषाणामपि तत्त्वानां जीवाजीवपरिणामविशेषरूपत्वेन कथञ्चित्तदव्यतिरिक्तत्वात्। तथाहिजीवस्यैव पुद्गलरूपकायवाङ्मानसानां व्यापरणरूपः परिणामस्तावदास्त्रवस्तस्माच्च शुभाशुभकर्मप्रकृतिप्रायोग्यकर्मवर्गणानामात्मप्रदेशैः सम्बन्धलक्षणो बन्धोऽपि तदव्यतिरिक्तस्तत्परिणाम एव, ततोऽनयोरत्यन्तव्यतिरेके हि आत्मनोऽबद्धत्वात् संसारित्वाभावः स्यात्। एवं पूर्वोदितास्रवनिरोधलक्षणः संवरोऽपि तत्परिणाम एव। यतो ययोरेवाङ्गल्योः स्वकारणात् पूर्वं संयोगोऽभूत्तयोरेव विघटननिमित्तप्रयत्नादिनिबन्धनो विभागोऽपि, न पुनरसावन्यधर्मस्तथा सति तयोः संयोगो न निवर्तेत, न हि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142