Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 55
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ૨૬ प्रीतिस्तत्त्व इति पञ्चमं द्वारं विवरीषुः सप्रभेदनवतत्त्वप्रतिपादनपुरःसरं तेषु श्रद्धानोपदेशमाहजीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्यास्त्रवौ भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे व्यशीतिः स्मृताः। भेदान् संवरबन्धयोः पृथगथाहुः सप्तपञ्चाशतं . मोक्षो देशविनिर्जरेति च नव श्रद्धत्त तत्त्वानि भोः!॥१२॥ व्याख्या-जीवितवन्तो जीवन्ति जीविष्यन्तीति जीवाः औपशमिकादिभावान्विताः साकारानाकारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानक्रियासु एककर्तृत्वप्रतीतिहेतवस्तत्फलभुजोऽमूर्तस्वभावाः सत्त्वाः भूरिभिदा अनेकप्रकाराः एक-द्विव्यादिभिस्तदवान्तरैश्चासंख्येयाऽनन्तादिभिर्भेदैः प्रत्येकं नानारूपत्वात् । तथाहि-चेतनालक्षणत्वेनैकविधो जीवः। भवस्थ-सिद्धरूपतया तु द्विविधः, भवस्थोऽपि भव्याभव्यरूपतया त्रसस्थावररूपतया वा द्विविधः। स्त्रीपुन्नपुंसकतया त्रिविधः। नारकतिर्यग्नरामरभेदाच्चतुर्विधः। त्रसादिविशेषविवक्षया चैक-द्वि-त्रि-चतुः-पञ्चेन्द्रियरूपतया पञ्चविधः। पञ्चविधोऽपि चायम् अनिन्द्रियसिद्धसहित: षड्विधः। भूजलानलानिलवनस्पतित्रसरूपतया वा षड्विधः। भूजलादिषड्विधोऽप्यकायसिद्धसहितः सप्तविधः। अण्डज १ पोतज २ रसज ३ जरायुज ४ संस्वेदज ५ सम्मूर्च्छनज ६ उद्भिज्ज ७ औपपातिक ८ भेदादष्टविधः। पृथिव्यादयः पञ्च द्वि-त्रि-चतु:पञ्चेन्द्रियश्चेति नवविधः। नारकाणां नपुसंकत्वेन तिर्यग्नरयोश्च प्रत्येकं स्त्रीपुनपुंसकत्वेन, सुराणां च पुंस्त्रीरूपत्वेन वा नवविधः। पृथिव्यादयश्चतुरिन्द्रियान्ता अष्टौ पञ्चेन्द्रियस्त्वसंज्ञिसंज्ञिभेदाद् द्विविध इति दशविधः। Jain Education International For Privafe & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142