Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 45
________________ धर्मशिक्षा प्रकरणं सवृत्तिकम् रोपणलक्षणं तदादि यस्य देवद्रव्यरक्षणादेस्तत्तथा तत्र । अयमभिप्रायःत्रिसन्ध्यं शुचिभूतेन पुष्पारोपणादित द्रव्यवृद्धिपर्यन्ता भक्तिः क्रियमाणा तीर्थकरत्वस्यापि हेतुः, किं पुनः विपद्भरादिव्यपोहनस्येति । अत्र च चैत्यार्चनरते गृहे कामधेनुप्रवेशादेरनेकस्याशक्यस्य कार्यस्य सिद्धेर्विशेषाख्योऽलङ्कारस्तथा च तल्लक्षणम् - अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तयैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ इति वृत्तार्थः॥ ५॥ अथ द्वितीयं तपः शक्तिद्वारं फलव्यक्तिद्वारेण वृत्तद्वयेनाहचक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरश्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं मङ्गल्यमिष्टार्थकृद् देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम् ॥ ६॥ इत्यादिप्रथितप्रभावमवनीविख्यातसंख्याविदां [ काव्यप्रकाश सू. १३६] मुख्यैः ख्यापितमाशु शाश्वतसुख श्रीक्लृप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयैः शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः ॥ ७ ॥ Jain Education International १६ व्याख्या - शक्त्यादिभिस्तपो विधेयमिति सम्बन्धः । किमित्यत आह—यतः चक्रे विदधे तीर्थकरैर्नाभेयादिवर्द्धमानपर्यन्तैरर्हद्भिः स्वयम् आत्मना संवत्सरादिषण्मासपर्यन्तस्य विधानात् । न केवलं विदधे, निजगदे अभिदधे च, चकारोऽत्र लुप्तो द्रष्टव्यः । कैः ? तैरेव तीर्थकृद्भिः 'खणलवतवच्चियाए [ ] इति वचनेन । कीदृशमित्याह — तीर्थं चतुर्वर्णश्रमणसङ्घस्तस्येश्वराः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142