________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
रोपणलक्षणं तदादि यस्य देवद्रव्यरक्षणादेस्तत्तथा तत्र । अयमभिप्रायःत्रिसन्ध्यं शुचिभूतेन पुष्पारोपणादित द्रव्यवृद्धिपर्यन्ता भक्तिः क्रियमाणा तीर्थकरत्वस्यापि हेतुः, किं पुनः विपद्भरादिव्यपोहनस्येति । अत्र च चैत्यार्चनरते गृहे कामधेनुप्रवेशादेरनेकस्याशक्यस्य कार्यस्य सिद्धेर्विशेषाख्योऽलङ्कारस्तथा च तल्लक्षणम् -
अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तयैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥
इति वृत्तार्थः॥ ५॥
अथ द्वितीयं तपः शक्तिद्वारं फलव्यक्तिद्वारेण वृत्तद्वयेनाहचक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरश्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं मङ्गल्यमिष्टार्थकृद् देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम् ॥ ६॥
इत्यादिप्रथितप्रभावमवनीविख्यातसंख्याविदां
[ काव्यप्रकाश सू. १३६]
मुख्यैः ख्यापितमाशु शाश्वतसुख श्रीक्लृप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयैः शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः ॥ ७ ॥
Jain Education International
१६
व्याख्या - शक्त्यादिभिस्तपो विधेयमिति सम्बन्धः । किमित्यत आह—यतः चक्रे विदधे तीर्थकरैर्नाभेयादिवर्द्धमानपर्यन्तैरर्हद्भिः स्वयम् आत्मना संवत्सरादिषण्मासपर्यन्तस्य विधानात् । न केवलं विदधे, निजगदे अभिदधे च, चकारोऽत्र लुप्तो द्रष्टव्यः । कैः ? तैरेव तीर्थकृद्भिः 'खणलवतवच्चियाए [ ] इति वचनेन । कीदृशमित्याह — तीर्थं चतुर्वर्णश्रमणसङ्घस्तस्येश्वराः
For Private & Personal Use Only
www.jainelibrary.org