SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १५ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तद्गहे प्रस्तुतस्तन्यभिलषति मुदा कामधेनुः प्रवेष्टुं चिन्तारतं तदीयं श्रयति करमभिप्रैति तं कल्पशाखी। स्वःश्रीस्तत्सङ्गमाय स्पृहयति यतते कीर्त्तिकान्ता तमाप्तुं तं क्षिप्रं मोक्षलक्ष्मीरभिसरति रतिर्यस्य चैत्यार्चनादौ॥५॥ व्याख्या-यस्य चैत्यार्चनादौ रतिस्तद्गहे अर्चकमन्दिरे कामधेनु र्वाञ्छितवस्तुदो सुरभिरभिलषति समीहते प्रवेष्टुम् अन्तर्भवितुम्। कीदृशी? इत्याह—प्रस्नुताः पयः क्षरितुं प्रवृत्ताः स्तनाः कुचा यस्याः सा तथा। अनेकवत्सस्येवार्चकस्य कामधेनुस्नेहविषयत्वं सातिशयं सूचितं भवति । अत एवाह-मुदा हर्षेण तथा चिन्तारत्नं चिन्तितार्थप्रदो मणिः तदीयं भक्तिकृत्सम्बन्धिनं करं हस्तं श्रयति भजते। अनेनापि चिन्तामणेस्तद्विषयो गौरवातिशयो व्यज्यते। तथा अभिप्रैति अभिप्रेततयाऽनुसरति। तमिति चैत्यार्चकम्, कल्पशाखी कल्पितार्थप्रदस्तरुविशेषः। अनेनाप्यर्चकविषयस्तस्य प्रतिबन्धो लक्ष्यते। अचेतनेष्वप्येतेष्वर्चकसमाश्रयणवशात् स्नेहाद्युपचारः प्रवर्त्तते। तथा स्वःश्रीर्देवलोकलक्ष्मीस्तत्संगमायाऽर्चकपुरुषाश्लेषाय स्पृहयति अनुरागविशेषेण तत्सम्बन्धलालसा भवतीत्यर्थः। तथा यतते प्रयत्नवती भवति। कासावित्याह-कीर्तिः दानपुण्यकृता शुभा प्रख्यातिः, सैवात्यन्तरमणीत्वात् कान्ता वल्लभा, तम् इति चैत्यभक्तम्। किं कर्तुम् इत्याह—आप्तुं लब्धुम्, तथा तमर्चकं क्षिप्रं शीघ्रं मोक्षलक्ष्मीनिवृतिश्रीरभिसरति कामार्त्तकामिनीव सङ्केतस्थानमागत्य गुप्ततया तेन सह सम्बध्यते। कस्यैवं कामधेन्वादिभिः सम्बन्धो भवतीत्यत आह—रतिः परमचित्तस्वास्थ्यलक्षणा प्रीतिर्यस्य पुण्यभाजः पुरुषस्य। क्व विषये इत्याह–चैत्यानि जिनप्रतिमास्तासामर्चनं पूर्वोक्तमाशातनापरिहार-पुष्पाद्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy