________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
१४
व्याख्या-चैत्यभक्तिः किं न फलतीति सम्बन्धः। तथाहि माहात्म्यविशेषाद् व्यपोहत्यपनयति विपद्भरं राजचौराग्न्याधुपद्रवप्राग्भारम्, हरति निवर्तयति रोगं ज्वरकुष्टक्षयादिकं व्याधिम्, तथाऽस्यति क्षिपत्यघं रोगादेरेव कारणमूलं पापम्, एतावता सनिदानदुरितोच्छेद उक्तः। अथ गुणसद्भावमाह-करोति विधत्ते रतिं सर्वदा सम्पद्यमानसमस्ताभिमतप्राप्त्या चित्तस्वास्थ्यम्, तथैधयति सुकृतानुभावेन प्रवर्द्धयति। कान्? इत्याह कीर्तिः प्रशस्ता ख्यातिः, धीः बुद्धिः, श्रीः लक्ष्मीर्गुणाः सौभाग्याऽऽदेयतादयस्ततः कीर्तिश्च धीश्चेत्यादि द्वन्द्वे, अतुला निरुपमास्ततश्चातुलाश्च ते कीर्तिधीश्रीगुणाश्च तान्। एवमैहिकं फलमभिधायाथ पारत्रिकमाह—तनोति करोति सुरसम्पदं महापरिवाररूपरत्नादित्रिदशसमृद्धिम्, किं बहुना? वितरति ददाति क्रमात् क्रमेण सुमानवत्व-सुदेवत्व-सच्चारित्रादिलाभपरिपाट्या मुक्ततां कृत्स्नकर्मक्षयलक्षणां सिद्धताम्। तत् किमेवंविधं फलमस्मद्वंशजैरिदं चैत्यं कारितमिति तद्बहुमानेनाप्याधीयमाना भक्तिः सम्पादयति? नेत्याह-जिनेन्द्रबहुमानतस्तीर्थकृगुणानुरागेण तस्यैव तदाराधनहेतुत्वात्। तदुक्तम्
तुममच्छीहिं न दीससि नाराहिज्जसि पभूयपूयाहिं। किं तु गुरुभत्तिरागेण वयणपरिपालणेणं च॥
ततस्तद्गुणानुराग एव फलदायीत्युक्तम्। स्वजनादिकारितत्वं तु स्वजनेष्वेव बहुमानं व्यनक्ति। एवं च पूर्वोक्ता चैत्यभक्तिः, किमित्यपूर्वापूर्वे, वक्तुमशक्यम्, न नैव फलति कर्तुः, अपि तु सर्वमैहिकं पारभविकं च शुभं ददातीति पृथ्वीनामकच्छन्दोवृत्तार्थः ॥ ४॥ ___अथ समस्तसमीहितवस्तुपदपदार्थप्राप्तिहेतुत्वेन चैत्यभक्ते : सातिशयफलवत्तामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org