________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
जिज्ञासा न भवति तदा न तदुक्तानुष्ठानेन परलोकसाधकत्वमित्यत आह— ज्ञीप्सा तदुक्तानुष्ठानविधित्सया जिज्ञासा श्रुते तदुपदिष्टाङ्गानङ्गादिरूपसिद्धान्ते अस्त्विति। विज्ञात श्रुतार्थोऽपि गृहस्थो यावत्सुपात्रे श्रद्धातिशयवान् सुविशुद्धं धनं न नियोजयति तावन्न सम्पूर्णद्रव्यस्तवाराधकः स्यादित्यत आह—दित्सा दानवाञ्छा धने सुविशुद्धद्रव्यविषये अस्त्विति । भवन्तु पूर्वोक्ताः सर्वेऽपि गुणास्तथापि 'विनयः शासने मूलम्
] इति वचनादविनीतस्य न कदाचित्स्वार्थसाधकतेत्यत आह—विधित्सा विधातुमिच्छा विनये गुर्वादिषु सर्वथा वचनकरणाद्यनुकूलसम्पादनरूपेऽस्त्विति। अत्र च ज्ञीप्सादिषु तिसृष्वपि यथासंख्यं श्रुतं च धनं च विनयश्चेति द्वन्द्वे तेष्विति सम्बन्धः। अस्त्विति वक्ष्यमाणपदेऽपि सम्बन्धनीयम्। सर्वेऽप्येते गुरूपदिष्टा एव ज्ञायन्ते। गुरवोऽपि सम्प्रति तथाविधप्रज्ञा-स्मृतिपाटवाभावेन पुस्तकं विना न सम्यगुपदेशप्रवृत्तिभाज इत्यत आह—धीः बुद्धिराल्लेखनादिविषया पुस्तके च प्रसिद्धस्वरूपे अस्त्विति। अत्र च चैत्यभक्त्यादीनां समस्तधर्मकर्मणां स्त्रीलिङ्गत्वेनैव निर्देशो वैशिष्ट्यात् काव्यविधानशक्तेर्ग्रन्थकर्तुरिति बोद्धव्यम्। एतानि हि चैत्यभक्तयादीनि कर्माणि सादरमनुष्ठीयमानानि निःश्रेयसानुगुणधर्माय कल्पन्त इति भवत्येतत् सर्वं धर्म्य पदमिति वृत्तार्थः ॥ ३ ॥
अथाद्यं चैत्यभक्तिद्वारं फलोपदर्शनद्वारेण विवृण्वन्नाहव्यपोहति विपद्धरं हरति रोगमस्यत्यघं
करोति रतिमेधयत्यतुलकीर्तिधीश्रीगुणान्। तनोति सुरसम्पदं वितरति क्रमान्मुक्ततां
जिनेन्द्रबहुमानतः फलति चैत्यभक्तिर्न किम्॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org