________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
૧૨
प्रवृत्तिरित्यत आह—भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवश्चतुर्गतिकः संसारस्तस्मादीतिरात्यन्तिकदु:खलक्षनिदानत्वेन महारौद्रतया भयं साप्यस्तु। तथाप्यन्यायचारिणो निष्फलैव भवभीतिरित्यत आह-उद्या सर्वलोकानुकूलत्वेन प्रशस्या आत्मनः स्वस्य नीतिः उत्तमगुणाभ्यासादिरूपो न्यायोऽस्त्विति। अथवा उद्या इति विशेषणं समस्तचैत्यभक्तयादिस्त्रीलिङ्गविशेष्येषु सर्वेष्वप्यविरुद्धत्वाद्योज्यम् । न्यायवानप्यत्यन्तरोषणो नैहलौकिककार्यस्यापि साधकः स्यादत आहक्षान्तिः क्षमा परकृतप्राणान्तिकापराधस्यापि धर्मबुद्ध्या तितिक्षणमस्त्विति। क्षमावानप्यजितेन्द्रियो दुविनीततया प्रायो गुर्वादीनामप्यनवधेयतया न स्वकार्यसाधकः स्यादत आह–दान्तिः दमः समस्तेन्द्रियवशीकारोऽस्त्विति । बाह्येन्द्रियनिग्रहवानपि नान्तरङ्गक्रोधादिरिपुवशवर्ती परलोकसाधकः स्यादत आह–स्वस्यात्मनः शान्तिः समस्तान्तरङ्गक्रोधाद्यशिवोपशमनेन स्वास्थ्यं तदप्यस्त्विति । तत्रापि यावत् सांसारिकवैषयिकसुखेषु तात्त्विकी सुखप्रतीतिस्तावन्न मोक्षसुखसाधनेषु संघटेताऽत आह-सुखे सांसारिकसुखप्रत्यये हतिः हननं विनाशः सुखाभावप्रत्यय इति यावदस्तु भवतु। सापि रूपादिसमस्तविषयनिधानभूतयोषिजनप्रतिबन्धे न स्यादत आह–अबलाया योषितो वान्तिर्वमनं परिहारोऽप्यस्तु। साक्षादनुभूयमानसम्भोगजसुखनिदानवनितात्यागोऽपि नाप्तोपदेशमन्तरेण स्यादुपदेशोऽपि नाप्तभ्रान्तावित्यत आह—अभ्रान्तिः अविपर्ययो निश्चय इति यावत्, अस्त्विति। आप्ते इति 'आप्ति दोषक्षय विदुः [ ] इति वचनाद्रागादिसमस्तदोषक्षयेण विशिष्टज्ञानस्याप्तिः प्राप्तिराप्तिरस्यास्तीति अर्शआदित्वादचि आप्तस्तत्र, आप्तप्रत्यये हि तदुपदेशादनुभूयमानसुखनिदानमपि परिणामदारुणविपाकत्वाद्विषफलसन्ततिरिव त्यज्यत एवाबलेति। आप्ताभ्रान्तावपि यदि तदीयवचन१. अर्शआदिभ्योऽच् पा० ५। २। १२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org