________________
११
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
प्रणाम-प्रदक्षिणादान-विकसितकुसुमपूजन-सुरभिधूपोद्ग्राहण-प्रधानपक्वान्नफलविशेष-बलिविरचन-स्तुति-स्तोत्रकलितपञ्चदण्डक-चैत्यवन्दनादिविधानेन भवतीति । देवगृहेऽपि तदावासत्चेन नरपतिप्रासाद इव प्रतिपत्तिविशेषरूपा भक्तिः पूर्ववद् द्विधैव। तत्राद्या
तंबोल-पाण-भोयण-पाणह-थीभोग-सुयणनिद्विवणे। मुत्तुच्चारं जूयं वज्जइ जिणमंदिरस्संतो।
इत्याद्याशातनापरिहारेण। द्वितीया तु प्रद्विष्ट जनविधीयमानशिखरपाञ्चालिकाभङ्गादिनिवर्त्तनेन भक्तिर्भवति । ततश्च सास्तु भवत्विति योगः। समस्तधर्मकर्मणां तीर्थकृद्भक्तिपूर्वकत्वादस्या आदावुपन्यासः। एवं चैत्यभक्तिमानपि विशिष्टतपश्चरणावष्टम्भविकलो न कर्मनिर्जरावान् स्यादत आह—शक्तिः सामर्थ्यं तपस्यनशनादिरूपेऽस्तु। तथा सत्यामपि तप:शक्तौ गुणवज्जनसम्पर्कमन्तरेण न धर्मकर्मनिर्वाहः स्यादत आह—गुणिजने सातिशयज्ञानादिगुणवति लोके आचार्यादौ सक्तिरत्यन्तप्रीतिलक्षण: प्रतिबन्धोऽस्तु। सत्यामपि चास्यामत्यन्तमर्थासक्तिमान्न धर्मप्रवृत्तिमान् स्यादत आह–अर्थे द्रव्यविषये विरक्तिर्वैराग्यमस्तु। सापि वस्तुतत्त्वप्रीतिमन्तरेण न स्यादत आह–प्रीतिरान्तरः प्रतिबन्धस्तत्त्वे जीवाजीवादिरूपे। अयमभिप्रायः-जीवाजीवादिषु नवसु तत्त्वेषु संवरतत्त्वे समित्यादिसप्तपञ्चाशद्भेदेऽनित्यत्वादिद्वादशानुप्रेक्षा उक्ताः सन्ति । तत्र च सर्वस्याप्यर्थादेरनित्यत्वाशुचित्वादिभावनावशादर्थे विरक्तिरिति । सापि च गुर्वादेशमन्तरेण न स्यात्, सोऽपि न तत्प्रतीतिं विनेत्यत आह–प्रतीतिरान्तरबहुमानेनाऽयमेव गुरुरिति प्रत्ययः। शुभगुरुषु ज्ञानक्रियाविशेषरत्नालङ्कतेष्वाचार्यादिष्वस्तु । शुभगुरुप्राप्तावपि भवभयमन्तरेण न सम्यक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org