________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
१०
अत्र च प्रकरणे प्रायः शार्दूलविक्रीडितं स्रग्धरा च वृत्तं क्वचिन्मालिन्याद्यपीति। ___अथाष्टादशाऽपि द्वाराण्युद्दिशन् पूर्वं तत्सम्बन्धायावान्तरवाक्यमाहततश्चेति । यतो धर्मकर्मसु कुशलताविधानमुपदिष्टम्, न चाज्ञातेषु तच्छक्यम् । ततश्चेति तस्मात्तदवबोधाय तत्स्वरूपमुच्यत इति शेषः, इत्यवान्तरवाक्यार्थः। तथा भव्या हि मुमुक्षवो मोक्षहेतुष्वेव विशेषतः सस्पृहा भवन्ति इति ग्रन्थकारस्तानेव मोक्षहेतून् विशेषतो गृहस्थान् प्रति सोपयोगांश्चैत्यभक्त्यादीनत्र प्रकरणे व्यक्ततया अभिधास्यन् पूर्वं तावत्तानेव धर्मकर्मरूपनाम्ना संकीर्तयन्नाहभक्तिश्चैत्येषु शक्तिस्तपसि गुणिजने सक्तिरर्थे विरक्तिः
प्रीतिस्तत्त्वे प्रतीतिः शुभगुरुषु भवादीतिरुद्यात्मनीतिः। क्षान्तिर्दान्तिः स्वशान्तिसुखहतिरबलावान्तिरभ्रान्तिराप्ते
ज्ञीप्सा दित्सा विधित्सा श्रुतधनविनयेष्वस्तु धी: पुस्तके च॥३॥ व्याख्या-चैत्येषु भक्तिरस्तु, तपसि शक्तिरस्त्वित्यादिरूपतयाऽस्त्विति क्रियापदं सर्वत्र योज्यम्। तत्र च चित्तं रागाद्यभावेन निर्मलं मनस्तस्य भावः कर्म वा चैत्यं मुख्यवृत्त्या, तन्निमित्तत्वाच्च 'व्रीहीन् वर्षति पर्जन्यः' इतिवज्जिनप्रतिमा अपि चैत्यानि गौणवृत्त्या, तदुक्तम्
चित्तं सुपसत्थमणो तब्भावो कम्म वा वि जं तमिह। तं चेइयं ति भन्नइ कारणओ हुंति जिणपडिमा॥
[ जिनप्रतिमाधारत्वाद्देवगृहमपि 'मञ्चाः क्रोशन्ति' इतिवच्चैत्यं गौणवृत्त्यैवोच्यते। तेषु चैत्येषु प्रतिमादिरूपेषु जिनगुणाध्यारोपेण भक्तिर्द्विधा–आशातनापरिहाररूपा उपचारविशेषरूपा च । तत्राद्या तावन्मलिनाङ्गवसना-ऽसिधेनुकाबन्ध-वार्त्ताविधान-शरीरकण्डूयनादिपरिहारेण, द्वितीया तु भावविशेषवतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org