SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् विन्देत् कार्पटिकः कथञ्चन पुनः पूर्णेन्दुपानं विधेः स्वप्ने राज्यफलप्रदं न तु मुधा नष्टं नरत्वं नरः। किं केनापि कुतोऽपि वीतविभवः क्षीणे सुरायुष्यहो भूयः कोपि सुरेश्वरस्त्रिदशतां प्राप्तः श्रुतः कर्हिचित् ॥ ७॥ अष्टौ चक्राणि सव्येतरतरलगतीन्युच्चकैस्तत्परस्ताद्राधां भिन्दीत चक्षुष्यवहितहृदयो राजवीजी कथञ्चित् । विद्राणाशेषभीतिप्रचय इह जनेऽपीन्द्रदत्ताङ्गभूवत् कृच्छ्रेणैवं सुदक्षोऽप्यसुलभनरतां नाशितां नो लभेत॥ ८॥ सुनिबिडजलनीलीचर्मभेदेन सिन्धू पमितगुरुनदान्तश्छिद्रसन्दृष्टचन्द्रः। कमठ इह पुनस्तच्छिद्रमाप्रोति भोः किं निजकजनसमेतस्तद्वदेतन्नरत्वम्॥ ९॥ स्वयम्भूरमणे महाजलनिधौ युगं पूर्वतो ऽपरत्र समिलां सुरः किल विमुच्य कोऽपीक्षते. प्रवेशनमहो युगे विवरमध्यतोऽस्याः स किं प्रपश्यति नरस्तथा न नरभावमासादयेत् ॥ १० ॥ पाषाणस्तम्भचूर्णावयवशतसहस्राणि फूत्कृत्य मेरो | देवेन केनाप्यथ सकलदिशां प्रापितान्यन्तदेशे। भूयस्तां स्तम्भतां तान्यमरमहिमतः प्राप्नुयुः कृच्छ्रकृच्छ्रान् नष्टं सन्मानुषत्वं कथमपि [न हि?] प्राप्यते प्राणभाजा ॥ ११ ॥ इति स्रग्धरावृत्तार्थः॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy