SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् चाणक्यामात्यपाशाः सुरविहितमहाप्रातिहार्या अपि स्युर्दैवात् प्रत्यर्थिपाशा विघटितसहजा दुर्जनौघा इवैते। नैव भ्रष्टं नरत्वं कथमपि सुलभं स्यात् प्रभाजालनीत्या पाताले चण्डरश्मेरतिबहललसद्ध्वान्तरुद्धावकाशे ॥ २॥ भिन्नं कर्तुं किल स्त्री प्रभवति जरती दुर्बला सर्षपाणां प्रस्थं मिश्रादतीवाऽखिलभरतधराधान्यराशेः समस्तात् । सान्निध्याद्देवतायाः कथमपि न पुनः प्राप्यते मानुषत्वं प्रभ्रष्टं नष्टपुण्यैः सलिलमिव मरौ सार्थिकैरुत्पथस्थैः॥ ३॥ संसद्यष्टशतोत्तमाश्रिकलितस्तम्भाभिरामश्रियि स्तम्भानामपि चोल्लसच्छतमहो अष्टोत्तरं विद्यते। राज्ञस्तस्य सुतेन चाभिलषता राज्यं विजेया सभा दाया अप्यखिला नृपस्य तनुजस्य त्वेक एव ह्यसौ ॥ ४॥ एकैका चास्त्रिरष्टोत्तरशतविधिना सर्वसंसद्गतेषु स्तम्भेष्वेवं समस्ता अपि यदि विजितास्तेन राजाङ्गजेन। स्युर्दैवाद् द्यूतशक्तेः कथमपि न तथाऽप्येतदासाद्यते भो! मानुष्यं भूरिकार्यप्रवणमुदयनं यद्वदुष्णांशुमूर्तेः॥ ५ ॥ वृद्धश्रेष्ठ्यङ्गजातैः शुभविविधमणिष्वन्धिपारागतेभ्यो दत्तेष्वन्यान्यदिक्षु प्रसभमथ गतेष्वेषु कालेन पश्चात् । रोषाद्वद्धस्य भूयोऽप्यथ घटनविधिः स्यात् कथञ्चिन्मणीनां तत्पुत्रैर्जातु नष्टं न पुनरपि निशि वध्रवन्मानुषत्वम्॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy