________________
[ १७ ] मुक्तिपद्धतिपाथेयं, शुभभावं दधत् सुधीः । मरुदेवास्वामिनीव, श्रीयते निर्वृतिश्रिया ॥ १७ ॥
पदच्छेदः-मुक्तिपद्धतिपाथेयं शुभभावं दधत् सुधीः मरुदेवास्वामिनी इव श्रीयते निर्वृतिश्रिया ।।
अन्वयः-सुधीः मुक्तिपद्धतिपाथेयम् शुभभावं दधत् मरुदेवा स्वामिनी इव निर्वतिश्रिया श्रीयते ।
शब्दार्थः-शोभना धीर्यस्य सः सुधीः बुद्धिमान्, मुक्तेः पद्धतिः तस्याः पाथेयम् (पथि हितं पाथेयम्), मुक्तिपद्धतिपाथेयम् =मुक्तिमार्ग का पाथेय । शुभभावम् शुभभाव को, दधत् धारण करते हुए, मरुदेवास्वामिनी इव= मरुदेवास्वामिनी की तरह। निर्वतेः श्रीः तया निर्वृतिश्रिया=मोक्ष के सुख से, श्रीयते आश्रय किया जाता है ।
श्लोकार्थः-बुद्धिमान् मनुष्य मोक्षमार्ग के पाथेय रूप शुभ भाव को धारण करते हुए मरुदेवास्वामिनी की तरह मुक्तिलक्ष्मी द्वारा आश्रय किया जाता है ।
संस्कृतानुवादः-धीमान् मानवः मोक्षमार्गस्य पाथेयरूपं शुभभावं धारयन् मरुदेवास्वामिनीव मुक्तिलक्ष्म्या आश्रीयते ।। १७ ॥
( १८ )