________________
क
चारित्रद्वारं ३ तीर्थद्वारं ४ पर्याप्तद्वारं ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ लेश्याद्वारं १० ध्यानद्वार ११ गणनाद्वारं १२ अमिग्रहद्वारं १३ प्रव्रज्याद्वारं १४ मुण्डापनद्वारं १५ प्रायश्चित्तद्वारं १६ कारणद्वारं १७ निष्पतिकर्मताद्वारं १८ मिक्षाद्वारं १९ पथद्वारं २०, तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतच, तत्र यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्चते तत्र सद्भावतः, उक्कं च-"खेत्ते दुहेह मग्गण जम्मणतो चेव संतिभावे य। जम्मणतोजहिं जातो संतीभावोय जहिं कप्पे॥॥” (पंच.१४८५) तत्र जन्मतःसद्भावतश्च पञ्चसुभरतेषु पश्चस्वैरवतेषु,नतु महाविदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिषु अकर्मभूमिषु वा प्राप्येरन, उक्तं च-"खेत्ते भरहेरवएसु होति संहरणवज्जिया नियमा।"(पं.१५२९) कालद्वारेऽवसर्पिण्यां तृतीये चतुर्थे वा अरके जन्म सद्भावः पञ्चमेऽपि, उत्सपिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावतः पुनः तृतीये चतुर्थे वा, उक्तं च-"ओसप्पिणीए दोसुं, जम्मणतोतीसुसंतिभावेणं । उसप्पिणि विवरीतो,जम्मणतोसतिभावे य॥१॥"(पंच.१४८७) नोत्सर्पिण्यवसर्पिणीरूपे चतुरिकप्रतिभागेकाले न सम्भवन्ति, महाविदेहक्षेत्रेषु तेपामसम्भवात् , चारित्रद्वारे संयमस्थानद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परतुल्यानि, समानपरिणामत्वात् , ततोऽसङ्ग्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योच यानि संयमस्थानानि तानि परिहारविशुद्धिकयोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि सम्भवात् , ततः ऊर्ध्व यानि सहयातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यातचारित्रयोग्यानि,उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org