Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोद्घातनिर्युकौ
श्रीवीरचरिते
॥ २६४ ॥
Jain Education Intern
कलशो मत्स्ययुगं दर्पणश्च तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती वातोद्भूता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्बमानकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं विमलमातपत्रं, तदनन्तरं मणिकनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहरहितानां वरतुरगाणां, तदनन्तरमष्टशतं वरकुञ्जराणां, ततोऽनन्तरमष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणामने कप्रहरणावरण संभृतानां रथानां ततोऽष्टशतं वरपुरुषाणां, तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, ततोऽप्यनन्तरं रथानीकं, ततः पदात्यनीकं, तदनन्तरमाकाशतल मुल्लिखन् लघुपताका सहस्रपरिमण्डितो योजनसहस्रोच्छ्रायो रत्नमयोऽतिमहान् महेन्द्रध्वजः, तदनन्तरं बहवः खगग्राहाः कुन्तग्राहाः पीठफलकप्राहाः, तदनन्तरं हासकारका नर्म्मकारकाः कान्दपिका जयजयशब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा मार्डविकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः सम्प्रस्थिताः, ततो देवैरुह्यमाना भगवतः शिविका गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरण्टमाल्यदान्ना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्चतुरङ्गिण्या सेनया परिकलितो नन्दिवर्द्धनोऽनुगच्छति ॥
कुसुमाणि पंचवण्णाणि मुंचता हुंदुहीउ ताडंता । देवगणा य पहट्ठा समंततो उच्छ्रयं गयणं ॥ १०० ॥ भा०॥ भगवति सिंहासनाधिरूढे शक्रेशान देवराजाभ्यां वीज्यमाने दीक्षार्थं प्रचलति प्रहृष्टा भक्तिप्रमोदापूरितमनसो देव
For Private & Personal Use Only
देववर्णनं निर्गमवर्ण
नं च
॥ २६४ ॥
www.jainelibrary.org

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618