SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युकौ श्रीवीरचरिते ॥ २६४ ॥ Jain Education Intern कलशो मत्स्ययुगं दर्पणश्च तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती वातोद्भूता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्बमानकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं विमलमातपत्रं, तदनन्तरं मणिकनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहरहितानां वरतुरगाणां, तदनन्तरमष्टशतं वरकुञ्जराणां, ततोऽनन्तरमष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणामने कप्रहरणावरण संभृतानां रथानां ततोऽष्टशतं वरपुरुषाणां, तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, ततोऽप्यनन्तरं रथानीकं, ततः पदात्यनीकं, तदनन्तरमाकाशतल मुल्लिखन् लघुपताका सहस्रपरिमण्डितो योजनसहस्रोच्छ्रायो रत्नमयोऽतिमहान् महेन्द्रध्वजः, तदनन्तरं बहवः खगग्राहाः कुन्तग्राहाः पीठफलकप्राहाः, तदनन्तरं हासकारका नर्म्मकारकाः कान्दपिका जयजयशब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा मार्डविकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः सम्प्रस्थिताः, ततो देवैरुह्यमाना भगवतः शिविका गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरण्टमाल्यदान्ना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्चतुरङ्गिण्या सेनया परिकलितो नन्दिवर्द्धनोऽनुगच्छति ॥ कुसुमाणि पंचवण्णाणि मुंचता हुंदुहीउ ताडंता । देवगणा य पहट्ठा समंततो उच्छ्रयं गयणं ॥ १०० ॥ भा०॥ भगवति सिंहासनाधिरूढे शक्रेशान देवराजाभ्यां वीज्यमाने दीक्षार्थं प्रचलति प्रहृष्टा भक्तिप्रमोदापूरितमनसो देव For Private & Personal Use Only देववर्णनं निर्गमवर्ण नं च ॥ २६४ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy