________________
ick0R
भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा यथाऽहं चन्द्रप्रभा शिबिकामुत्पाटयन्ति, उत्पाव्य शक्रेशानेन्द्रवर्जाः शेषा देवा यथायोगं परिवहन्ति, शक्रेशानेन्द्रौ तु चामराभ्यां वीजयतः ॥ एतदेवाह
पुट्विं उक्खित्ता माणुसेहिं सा हहरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥९८ ॥ भा०॥ ४ पूर्व-प्रथममुरिक्षता-उत्पाटिता मानुषैः सा शिबिका, किंविशिष्टैरित्याह-हृष्टानि रोमकूपानि येषां ते तथा तैः,४i
पश्चाद्वहन्ति शिविकामसुरेन्द्रसुरेन्द्रनागेन्द्राः, असुरेन्द्राः-चमरादयः सुरेन्द्रा-ज्योतिरिन्द्रादयः नागेन्द्रौ-धरणभूतानन्दौ । असुरेन्द्रादिस्वरूपव्यावर्णनार्थमाहचलचवलभूसणधरा सच्छंदविउवियाभरणधारी । देविंददाणविंदा वहंति सीयं जिर्णिदस्स ॥ ९९ ॥ भा०॥
चलाश्च ते चपलभूषणधराश्चेति विशेषणसमासः, तत्र चला गमनक्रियायोगात्, घपलभूषणपरा हारांदिचपलभूषणयोगात् , तथा स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनि धारयन्तीस्येवंशीलाः स्वच्छंदविकुर्विताभरणधारिणः, अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत स्वनिर्मितानीति संशयसम्भवे व्यवच्छेदार्थमाह-स्वच्छंदविकुर्विताभरणधारिणः, क एते इस्याह-देवेन्द्रदानवेन्द्राः, किं ?-वहन्ति शिविकां जिनेन्द्रस्य ॥ एवं भगवति शिविकारूढे गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यमून्यष्टौ मङ्गलकानि पुरतः क्रमेण सम्प्रस्थितानि, तद्यथा-स्वस्तिकः श्रीवत्सः नन्दावः वर्द्धमानक भद्रासनं
Jain Education International
For Private & Personal use only