Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 536
________________ SA पियदसणं धूर्य' वत्र जनितवानित्यर्थः, गतमपत्यद्वारम् । एवं भगवान् वर्धमानोष्टाविंशतिवर्षो जातः, अत्रान्तरे भगवतो मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिर्नन्दिवर्द्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! मा क्षारं क्षते निक्षिप, कियन्तमपि कालं प्रतीक्षस्व, भगवानाह-कियन्तं १, स्वजन आह-वर्षद्वयं, भगवानाह-ययेवं तर्हि भोजनादौ मम व्यापारो न वोढव्यः, एवं प्रतिपन्ने समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन तस्थौ, न च प्राशुकेनापि जलेन सर्वस्त्रानं कृतवान्, केवलं लोकस्थित्या हस्तपादमुखमात्रप्रक्षालनं प्राशुकेन जलेन चकार, निष्क्रमणमहोत्सवे तु सचित्तोदकेन स्नातवान् , ब्रह्मचर्य च सुविशुद्धं ततःप्रभृति यावज्जीवं परिपालितवान् , इह यदा भगवान् जातस्तदैवं लोके प्रसिद्धिरभूत् , यथा-एष चतुर्दशस्वमसूचितो जात इति चक्रवर्ती भविष्यति, तत, एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयो भगवत्पर्युपासनाय कुमारभूपाःप्रेपिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एप चक्रवर्ती भविष्यतीति स्वं स्वं स्थानं प्रति गताः, भगवानपि तथा तिष्ठन् संवत्सरातिक्रमे महादानं दत्तवान् , लोकान्तिकैश्च प्रतिवोधितः, दावधिः प्रबजितः॥ अमुमेवार्थ लेशतः प्रतिपादयति नियुक्तिकृत् हत्थुत्तरजोगेणं कुंडग्गामंमि खतिओ जचो । बजरिसभसंघयणो भवियजणवियोहतो वीरो ॥ ४५९॥ सो देवपरिग्गहिओ तीसं वासाइं वसइ गिहवासे । अम्मापिईहिं भगवं देवत्तगएहिं पञ्चइतो ॥ ४६० ॥ हस्त्रोचरायोगेन-उत्तराफाल्गुनीयोगेन कुंडनगरनामे जात्यः-उत्कृष्टः क्षत्रियो वज्रर्षभसंहननो भव्यजनविवोधको CAREKACC C ROSORRC% - -- - Jain Education Internatio For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618