________________
SA
पियदसणं धूर्य' वत्र जनितवानित्यर्थः, गतमपत्यद्वारम् । एवं भगवान् वर्धमानोष्टाविंशतिवर्षो जातः, अत्रान्तरे भगवतो मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिर्नन्दिवर्द्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! मा क्षारं क्षते निक्षिप, कियन्तमपि कालं प्रतीक्षस्व, भगवानाह-कियन्तं १, स्वजन आह-वर्षद्वयं, भगवानाह-ययेवं तर्हि भोजनादौ मम व्यापारो न वोढव्यः, एवं प्रतिपन्ने समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन तस्थौ, न च प्राशुकेनापि जलेन सर्वस्त्रानं कृतवान्, केवलं लोकस्थित्या हस्तपादमुखमात्रप्रक्षालनं प्राशुकेन जलेन चकार, निष्क्रमणमहोत्सवे तु सचित्तोदकेन स्नातवान् , ब्रह्मचर्य च सुविशुद्धं ततःप्रभृति यावज्जीवं परिपालितवान् , इह यदा भगवान् जातस्तदैवं लोके प्रसिद्धिरभूत् , यथा-एष चतुर्दशस्वमसूचितो जात इति चक्रवर्ती भविष्यति, तत, एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयो भगवत्पर्युपासनाय कुमारभूपाःप्रेपिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एप चक्रवर्ती भविष्यतीति स्वं स्वं
स्थानं प्रति गताः, भगवानपि तथा तिष्ठन् संवत्सरातिक्रमे महादानं दत्तवान् , लोकान्तिकैश्च प्रतिवोधितः, दावधिः प्रबजितः॥ अमुमेवार्थ लेशतः प्रतिपादयति नियुक्तिकृत्
हत्थुत्तरजोगेणं कुंडग्गामंमि खतिओ जचो । बजरिसभसंघयणो भवियजणवियोहतो वीरो ॥ ४५९॥ सो देवपरिग्गहिओ तीसं वासाइं वसइ गिहवासे । अम्मापिईहिं भगवं देवत्तगएहिं पञ्चइतो ॥ ४६० ॥ हस्त्रोचरायोगेन-उत्तराफाल्गुनीयोगेन कुंडनगरनामे जात्यः-उत्कृष्टः क्षत्रियो वज्रर्षभसंहननो भव्यजनविवोधको
CAREKACC
C ROSORRC%
-
--
-
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org