Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 445
________________ ४४२ व्यवहार-छेदसूत्रम् -२- १०/२५१ वृ- अवधिर्द्विधा भवप्रत्ययो गुणप्रत्ययश्च । तत्र संयतानां गुणप्रत्यय एव न भवप्रत्ययस्तत आहअवधौ गुणप्रत्यये ये वर्तन्ते श्रुताङ्गविदो धीरास्तान् अवधिविषयज्ञानस्थान् जानीतं व्यवहारशोधिकरान् शुद्धव्यवहारकारिणः । [भा. ४०३०] उज्जुमती विउलमती जे वट्टंती सुयंगवी धीरा । मनपज्जवनाणत्थे जाणसु ववहारसोहिकरे ।। - ये जुमतौ विपुलमतौ वा मनः पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्तन्ते तान्मयः पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान शुद्धव्यवहारकारिणः । [भा. ४०३१] आदिगरा धम्माणं चारित्तवरनाणदंसणसमग्गा । सव्वत्तगणाणेणं ववहारं ववहरंति जिना ।। वृ- ये धर्मयोः श्रुतधर्मस्य चारित्रधर्मस्य चादिकरास्तत्प्रथमतया प्रवर्तनशीलाश्चारित्रवरज्ञानदर्शनसमग्रास्ते जिनाः सर्वत्रगज्ञाने व्यवहारं व्यवहरन्ति । उक्तः प्रत्यक्षः । सम्प्रति परोक्षमाह[भा. ४०३२] पच्चक्खागमसरिसो होति परोक्खो वि आगमो जस्स । चंदमुही विव सोवि हु आगमो ववहारवं होइ ।। वृ- यद्यपि पूर्वादिकं श्रुतं तथापि यस्यागमश्चतुर्दशपूर्वादिकः परोक्षोऽपि प्रत्यक्षागमसदृशः प्रत्यक्षावध्यादितुल्यरूपो भवति सोप्यागमव्यवहारवान् वक्तव्यो भवति । यथा चन्द्रसदृशमुखी कन्या चन्द्रमुखीति एतदुक्तं भवति यद्यपि पूर्वाणि श्रुतं नागमतुल्यानीति ( तदपि ) तैर्व्यवहरन् आगमव्यवहारवान् उच्यते इति । सम्प्रत्यागमस्य व्याख्यानमाह [भा. ४०३३] नायं आगमयंति एवं जस्स सो परायत्तो । सो परोक्खो बुच्चइ तस्स पएसा इमे हुति । । वृ- ज्ञानमागमितमित्येकार्थमेवं च ज्ञानमागम इत्येकार्थमापतितं । तत्र यस्य स आगमोऽपराधीनः स प्रत्यक्ष उच्यते । सचावध्यादिरूपो यस्य तुपरायत्तः स परोक्ष उच्यते । सच चतुर्दशपूर्वादिसमुत्थस्तस्य परोक्षस्यागमस्य प्रदेशाः प्रतिभागा भेदा इत्यर्थः । इमे वक्ष्यमाणा भवन्ति । तानेवाह [ भा. ४०३४ ] पारोक्खं ववहारं आगमतो सुयधरा ववहरंति । चोदसदसपुव्वधरा नवपुव्वियगंधहत्थी य ।। वृ-ये श्रुतधराश्चतुर्दशपूर्वरा दशपूर्वधरा नव पूर्विणो वा गन्धहस्तिनो गन्धहस्तिसमानाः से आगमतः परोक्षं व्यवहारं व्यवहरन्ति । अत्राक्षेपपरिहारावभिधित्सुराह [भा. ४०३५ ] किह आगम ववहारी जम्हा जीवादयो पयत्था उ । उवलद्धा तेहिं तू सव्वेहिं नयविगप्पेहिं ।। वृ- कथं केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्तः आगमव्यवहारिणः प्रोच्यन्ते सूरिराह यस्मात् जीवादयः पदार्थास्तैश्चतुर्दशपूर्वधरादिभिः सर्वै नयविकल्पैर्नैगमादिनयभेदैरुपलब्धाः एतदेव सविशेषमाह - [भा. ४०३६] Jain Education International जह केवली वि जाणइ दव्वं च खेत्तं च कालभावं च । तह चउलक्खणमेवं सुयनाणीमेव जाणाति ।। वृ- यथा केवली केवलज्ञानेन सर्वं द्रव्यं सर्वं क्षेत्रं कालं भावं च सर्वात्मना स्वपरपर्यायभेदभिन्नं जानाति For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564