Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९३
उद्देशकः-१०, मूलं-२५१, [भा. ४३५८] पुनराहारो दीयते । तत आहभा.[४३५९] हंदि परीसहचमू जोहेयव्वा मणेण काएण।
तो मरणदेसकाले कवयभूओ उ आहारो ।। वृ.हंदीति चोदकामन्त्रणे ! हे चोदक परीपहचमूः परीपहसेना मनसा कायेनोपलक्षणमेतत् वाचा च योधेन योधयितव्या ततस्तस्याः पराजयनिमित्तं मरणदेशकाले मरणसमये योधस्य कवचभूत आहारो दीयते । एतदेव विभावयिपुरिदमाहभा.[४३६०] संगामदुगं महसिलरहं मुसले चेव परूवणा।
असुरसुरिंदावरणं, चेडग एगो गहं सरस्स ।। वृ.चेटकस्य कोणिकस्य च परस्परं विग्रहे कोणिकपक्ष संग्रामद्वयमसुरेन्दोरऽमरः कृतवान् तद्यथा-महाशिलाकंटकं रथमुशलं च तस्य प्ररूपणा-यथा व्याख्याप्रज्ञप्तौ तथा कर्तव्या। असुरेन्द्रेण च शक्रेण कोणिकस्यावरणं कृतं कठिनवज्रमयप्रतिरूपके स क्षिप्त इत्यर्थः । ततश्चेटकस्य एक: सारथिः कोणिकवधाय शरस्य कनकप्रवहणविशेषरूपस्य यद्ग्रहं कृतवान् । भा.[४३६१] महसिलकंटे तहियं वटुंते कोणिउ उरहिएण।
रक्खग्गविलग्गेण पढे पहउ उ कनगेणं ॥ भा.[४३६२] उप्फिडिउ सो कनगो कवयावरणंमि तो तउ पडिउ।
तो तस्स कोणिएण सीसं च्छिन्नं खुरप्पेणं ।। वृ. ततो महाशिलाकण्टके संग्रामे वर्तमाने कोणिकश्चेटकस्य रथिकेन निरन्तरशरमोक्षणतः आच्छादितः परं ते सर्वेऽपि शराः कठिनप्रतिरूपके ऽभ्यट्य बही: पतितं ततो वृक्षमारुह्य तद्विलग्नेन कोणिक: पष्टे कनकेन प्रवहणविशेषेण प्रहतः सोऽपि कवचावरणे कठिनप्रतिरूपके उत्स्फिट्य पतितः ततः कोणिकेन तं तथाध्यवसायं वृक्षविलग्नमवलोक्य कोपावेशात्तस्य शिरः क्षुरप्रेण च्छिन्नम्। भा. [४३६३] दिटुंतस्सोवणउ कवयत्थाणी इहं तहाहारो।
सत्तू परीसहा खलु आराधनरज्जथाणीया ।। वृ. एषो अनन्तरोदिषो दृष्टान्तोऽयं तस्योपनय:-कवचस्थानीय इह तथा रूप आहार:, शत्रवः परीषहा राज्यस्थानीया आराधना यथा शत्रुपराजयाय कवचमारोप्यते सङ्ग्रामे, तथा परीपहजयाय चरमकाले दातव्य आहारः । अत्रैव दृष्टान्तान्तरमाहभा. [४३६४] जह वा उंढिय पादे पाउं काउण हत्थिणो पुरिसे।
आरुहइ त(ह)प्परिण्णी आहारेणं तु ज्झाणवरं ।। व.यथा वा कोऽपि हस्तिनमारोढुमशक्तो हस्तिनं पादमाकुञ्चापयति, आकुञ्चाप्य तस्मिन् पादे आत्मीयं पादं कृत्वा हस्तिनमारोहति तथा परिज्ञी भक्तपरिज्ञावान् आहारेण ध्यानवरमुत्तमं ध्यानमारोहति। भा. [४३६५] उवकरणेहिं विहूणो जह वा पुरिसो न साहए कज्जं।
एवाहार परिण्णी दिटुंता तत्थिमे हुंति ॥ वृ. यथा पुरुष उपकरणैर्दात्रादिभिर्विहीनो न साधयति लघनादिकं कार्यमेवमाहारमन्तरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564