Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०७
उद्देशकः-१०, मूलं-२५१, [ भा. ४४५५ ] यत् एष्यति काले सेविस्येऽहमित्यध्यवसितं तदविकटभावः प्रकटभाव आलोचयति। भा. [४४५६] किं पुन आलोएई अतियारं सो इमो य अतियारो।
वयछक्कादी ते खलु नायव्वो आनुपुव्वीए॥ वृ.किं पुनस्तदालोचयति। सूरिराह-अतीचारं पुनरतीचारोऽयं वक्ष्यमाणो व्रतषटकादिको । व्रतषटकादिविषयः खल्वानुपूर्व्या ज्ञातव्यस्तमेव दर्शयति। भा. [४४५७] वयछक्कं कायछक्कं अकप्पो गिहिभायणं ।
पलियकं निसेज्जा य सिणाणं सोभवज्जणं ॥ वृ.व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तं कायषट्कं पृथिव्याद्यकल्पपिण्डादिको गृहिभाजनं काश्यपात्र्यादि पल्यङ्कः प्रतीतो निषद्यागोचरप्रविष्टस्य निषदनं, अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनं, भूषा परित्यागः एतत् विधेयतया प्रतिषेध्यतया वा यत् यथोक्तंनाचरितं तत आलोचयतिभा. [४४५८] तं पुन होज्जा सेविय दप्पेणं अहव होज्ज कप्पेण ।
दप्पेण दसविहं तू इणमो वुच्छं समासेणं ।। वृ. तत्पुनर्विरुद्धं सेवितं दर्पण अथवा कल्पेन तत्र यत् दर्पण सेवितं तदिदं वक्ष्यमाणं दशविधं तदेव समासेन वक्ष्ये प्रतिज्ञामेव करोतिभा. [४४५९] दप्प व अकप्प निरालंब वियत्ते अप्पसत्थ वीसत्थो ।
अपरिच्छ अकडजोगी अनानुयावीय निस्संको।। वृ. दर्पो निष्कारणं धावनवल्गनवीरयुद्धाद्रिकरणं १ । अकल्पोऽपरिणतपृथ्वीकायादिग्रहणमगीतार्थानीतोपधिशय्याहाराद्युमभोगश्च २ । निरालम्बो ज्ञानाद्यालम्बनरहितप्रतिसेवनाको ३। वियत्तेति पदैकदेशे पदसमुदायोपचारात्त्यक्तकृत्यः संस्तरन्नपि सन्नकृत्यं प्रतिसेव्य त्यक्तचारित्र इत्यर्थः ४। अगशस्तो बलवर्णादिनिमित्तं प्रतिसेवी, ५। विश्वस्तः स्वपक्षतः परपक्षतो वा निर्भयं प्राणातिपातादिसेवी ६ । अपरीक्षी युक्तायुक्तपरीक्षाविकलः ७ । अकृतयोगी अगीतार्थः । त्रीन्वारान् कल्पमेषणीयं चापरिभाव्य प्रथमवेलायामपि यतस्ततोऽल्पानेषणीयमपि ग्राही ८ । अननुतापी अपवादपदेन कायानामुपद्रवेऽपि कृते पश्चात् अनुतापरहित: ९ । निःशङ्को निर्दयः इह परलोकशङ्कारहित इत्यर्थः १०। भा.[४४६०] एयं दप्पेण भवे इणमनं कप्पियं मुनेयव्वं। .
चउवीसई विहाणं तमहं वुच्छं समासेन ।। वृ. एतदनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति । इदमन्यत्कल्पिकं चतुर्विंशतिविधानं ज्ञातव्यं तदहं समासेन वक्ष्ये तदेवाहभा.[४४६१] दंसणनाणचरित्ते तवपवयण समिति गुत्तिहेउ वा।
साहम्मिय वच्छल्लेण वावि कुलतो गणस्से वा॥ भा.[४४६२] संघस्सायरियस्स असहुस्स गिलाण बालवुड्डस्स।
_उदयग्गिचोर सावय भयकंतारावती वसने ॥ वृ.दर्शने दर्शनप्रभावकं शास्त्रग्रहणं कुर्वन्नसंस्तरणे १ । ज्ञाने सूत्रमर्णं चाधीयमानो असंस्तरणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564